By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्
राष्ट्रीयवार्ताःप्रादेशिकवार्ताहिमाचलवार्ता

चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्

डॉ. अमित शर्मा
Last updated: 2023/12/30 at 6:36 AM
डॉ. अमित शर्मा - संस्कृतशिक्षक:
Share
2 Min Read
SHARE

चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्- जिला शिक्षा एवं प्रशिक्षणसंस्थाने चम्बायां हिमाचलप्रदेशस्य ६० संस्कृतशिक्षकाणां प्रचलति प्रशिक्षणम्

हिमसंस्कृतवार्ता:- चम्बा। 

समग्रशिक्षाहिमाचलप्रदेशः संस्कृतशिक्षकाणां कृते राज्यस्तरीय- प्रशिक्षणकार्यशालायाः आयोजनं चम्बाजनपदस्य जिलाशिक्षाप्रशिक्षणसंस्थाने सरु इत्यत्र कुर्वन् अस्ति। एतत् प्रशिक्षकप्रशिक्षणं 27/12/2023 तः 31/12/2023 पर्यन्तम् आयोजितम् अस्ति। अस्मिन् सम्पूर्ण हिमाचलस्य ६० सर्वकारीयसंस्कृतशिक्षकाः भागं गृह्णन्ति। अस्मिन् पञ्चदिवसीयप्रशिक्षणे घटमानानां कार्याणां विषये बोधयन् डॉ. मनोजशैलः अवदत् यत् संस्कृतविषयसम्बद्धाम् आधुनिकस्थित्यानुसारं शिक्षकान् सज्जीकर्तुं समग्रशिक्षाहिमाचलस्य एष: प्रशंसनीय: उपक्रमः अस्ति। अस्मिन् शिक्षकान् शिक्षानीतिः, राष्ट्रिय उपलब्धिसर्वेक्षणक्षेत्रवारसमस्याः तेषां सम्भाव्यसमाधानं च तथा च आधुनिकसाधनानाम् उपयोगेन छात्राणां कृते स्वविषयं प्रभावीरूपेण प्रसारयितुं विविधाः पद्धतयः प्रशिक्षिताः सन्ति। अस्यां कार्यशालायां डॉ. शिवकुमारः राज्यसंसाधनव्यक्तिरूपेण शिक्षानीति २०२०, व्यावहारिकसंस्कृतं, मूल्याङ्कनविषयेषु चर्चां कृतवान्, ललितशर्मा उच्चमाध्यमिकस्तरस्य शिक्षाशास्त्रीयप्रक्रिया:, पठनकौशलं, उच्चमाध्यमिकस्तरस्य साहित्यिकसामग्रीप्रयोगः, डॉ. अमनदीपः सरलमानकसंस्कृतं, संस्कृतसम्भाषणम्, काव्यपाठविधिः, अध्यापनक्षेत्रे प्रौद्योगिक्याः प्रयोगः, डॉ. अमित शर्मा, लेखनकौशलविषये, डॉ मनोजशैल: संस्कृतशिक्षणे मूल्याङ्कनम्, डॉ. देवर्षि अगस्त्यः प्रथमद्वितीयतृतीयभाषारूपेण संस्कृतं, नाटकशिक्षणं, व्याकरणशिक्षणस्य प्रायोगिकं ज्ञानं डॉ. कमलकान्त: भाषणकौशलम्, गद्यपाठनम् व्याकरणपाठस्य प्रविधय:  एतेषु विषयेषु सत्रं गृहीतम्। प्रशिक्षणं प्राप्तुं ये शिक्षकाः आगताः ते अपि उत्साहेन भागं गृहीतवन्तः।

अध्यापनसामग्रीणां व्यावहारिकपक्षं प्रतिदिनं विविधक्रियाभिः सुदृढं भवति स्म। श्रव्य-दृश्य-सामग्रीणां उपयोगेन पाठ्यक्रमं कथं छात्राणां कृते विविधरीत्या सुलभं कर्तुं शक्यते इति प्रयोगात्मकपद्धत्या प्रशिक्षणं दत्तम्। मनोजशैलेन एतत्प्रकारस्य प्रशिक्षणस्य कृते। राज्यपरियोजनानिदेशकस्य राजेशशर्मण:, राज्यप्रशिक्षणसमन्वयिकाया: सोनियाशर्मामहोदयाया:, जिला- परियोजना-अधिकारिण: सुमनकुमारमिन्हासस्य अपि च जिलाशिक्षकप्रशिक्षणप्रमुखस्य ओंकारवर्मण: आभार: प्रकटित:।

संयोजक: जिलाशिक्षक-प्रशिक्षणप्रमुख: ओंकारवर्मा अस्यै कार्यशालायै  राज्य समग्रशिक्षाहिमाचलप्रदेशस्य आभारं प्रकटितवान्। सः अवदत् यत् चम्बायां एतादृशी प्रथमा कार्यशाला आयोजिता यत्र राज्यस्य सर्वेभ्यः जनपदेभ्य: शिक्षकाः समागताः सन्ति। चर्चासु सर्वे भागं गृह्णन्ति, एतादृशं वातावरणं कार्यशालायाः दृष्ट्या महत्त्वपूर्णं भवति, संस्थायाः छात्राणां कृते अपि प्रेरणादायकं वर्तते। सम्पूर्णा कार्यशाला संस्कृतमाध्यमेन संस्कृतशिक्षकैः संचालितं कृतम्। यस्य प्रारम्भिकसत्रे संस्कृतप्रार्थनाः, संस्कृतभाषायां वार्ता इत्यादयः पठ्यन्ते।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: DIET Chamba, Sanskrittaining, चम्बा, प्रशिक्षण, संस्कृतशिक्षक
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ. अमित शर्मा संस्कृतशिक्षक:
पद- संस्कृत शिक्षकः संस्था- शिक्षा विभागः हिमाचलप्रदेशः शैक्षणिक योग्यता- शास्त्री, शिक्षाशास्त्री (B.Ed) एम ए (संस्कृतम्), विद्यावारिधि (पी एच डी) संस्कृतम्। पत्राचार सङ्केतः- ग्रामम् जसोह, पत्रालय:- झलाण, तहसील नादौन, मण्डलम्- हमीरपुरम् हि.प्र. 177301
Previous Article मुकेश अग्निहोत्री :- केन्द्रसर्वकार 1274 कोटि रूप्यकाणि विमोचयेत्।
Next Article सुकन्या समृद्धियोजना :- सर्वकारेण सुकन्या योजनायां कृता वृद्धिः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?