प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः
साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति। तेषां चर्चया, जीवन-चरिताध्ययनेन च अस्मिन् देवदुर्लभे मनुष्यजीवने सन्मार्गदर्शनं प्राप्यते, सत्सङ्गः च लभ्यते। एतादृशेषु अनन्त-सङ्ख्यकेषु सज्जनेषु भारतेन्दु-हरिश्चन्द्रः अन्यतमः। तस्य महाभागस्य जीवनचरितविषयेऽत्र किञ्चित् उपस्थाप्यते। ०९ सितम्बर, १८५० तमे ख्रीष्टाब्दे श्रीगिरिधरदासस्य पुत्रत्वेन लब्धजन्मः बालः हि हरिश्चन्द्र- नामधेयः आसीत्। काश्याम् अयं परिवारः समृद्धः, विद्वान्, भगवद्भक्तश्च आसीत्। गिरिधरदासः स्वयमेकः प्रसिद्धः कविः आसीत्। परन्तु तस्य पुत्रः हरिश्चन्द्रः कालक्रमे इतोऽपि महान् यशस्वी अभवत्। बाल्यतः हि तस्मिन् असाधारिणी काव्य-प्रतिभा तथा भगवद्भक्तिः आसीत्। यदा सः दशवर्षीयः आसीत्, तदा तस्य पिता स्वर्गाश्रितः अभवत्। ततः त्रयोदशवर्ष-वयसि सः विवाहपाशे आबद्धः जातः। अतीव सुन्दरं तस्य शरीरम्, उदात्तं मनः च। दानविषये तु सः सत्ययुगीयः हरिश्चन्द्रवत् हि आसीत् इति तदानीन्तनाः वदन्ति स्म। हिन्दी-साहित्याय विविधधारां प्रदत्तवान् सः महाभागः। भाषाशैलीं परिष्कृतवान्, राष्ट्रियनादम् अध्वनत्। हिन्दीजगत् तं ‘भारतेन्दु’ इति उपाधिना विभूषितवत्।
भारतेन्दुः श्रीवल्लभ-सम्प्रदायस्य वैष्णवः, तथा परमभक्तः आसीत्। श्रीकृष्णः हि तस्य सर्वस्वम् आसीत्। सः आत्मसम्बन्धे अकथयत् यत्- ‘सखा प्यारे श्यामके, गुलाम राधारानीके।’ इति।
यदा सः मृत्युशय्यायां शयानः आसीत्, तदा उक्तवान्- ‘प्यास लगी है।’ इति। राजा शिवप्रसादः तस्य शय्यायाः पार्श्वे आसीत्। तद्विश्रुत्य सः रजतपात्रे जलम् आनीय तस्मै यदा तद्दातुम् उद्यतः, तदा सः उक्तवान्- ‘पानी नहीं, घनानन्द का सवैया। प्यास प्राणोंको लगी है।’ इति। तदा राजा ‘सवैया’ इति पठितवान् एवम्-
‘तुम कौन-सी पाटी पढे हो लला,
मन लेहु पै देहु छटाक नहीं।
एवं प्रकारेण मृत्युशय्यायां हि हरिश्चन्द्रस्य रसिकता भक्तिश्च सुदृढा अवर्तत्। ०६ जनवरी, १८८५’ दिनाङ्के सः लीलाधाम श्रितवान्। सः परमभागवतः परोपदेशं विहाय स्वस्य कृते हि कथयति स्म-
‘रसने! रटु सुंदर हरिनाम।
मंगल करन, हरन सब असगुन, करन कल्पतरु काम।।
तू तौ मधुर सलोनो चाहत, प्राकृत स्वाद मुदाम।
‘हरीचन्द’ नहिं पान करत क्यों, कृष्ण-अमृत अभिराम।।’ इति शुभम्।
नारदः।
प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
