By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा
धर्मसंस्कृतिः

रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा

डॉ.अमनदीप शर्मा
Last updated: 2023/12/10 at 10:52 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

श्रीरामायणकथा लङ्काकाण्डम्।
(ऊनपञ्चाशत्तमः सर्गः)
(चतुर्थः खण्डः)

एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि वीरौ एवमेव बाणान् क्षिपतः स्म यस्मात् प्राणिनः त्रस्ताः अभवन्। तयोः उभयोः बाणैः मेघवद् आकाशमण्डलं व्याप्तम् अभवत्। पुरा इन्द्रवृत्रासुरयोरिव परस्परं वधाकाङ्क्षिणोः रामरावणयोः युद्धम् आरब्धम्। एवमेव तयोः मध्ये युद्धं प्रचलति स्म। तदानीं संसक्तहस्तः रावणः श्रीरामस्य ललाटे नाराचमालां प्रत्यमुञ्चत्। रघुनन्दनः रामः किन्तु तदा नीलोत्पलदलवद् रावणेन क्षिप्तान् तान् बाणान् क्लेशेन विना शिरसा अधारयत्। सः किञ्चिदपि व्यथां न अन्वभवत्। ततः क्रोधसमन्वितः रामः भूयः शरान् समादाय राक्षसेन्द्राय अक्षिपत्। ते शराः रावणस्य महामेघसङ्काशे अवध्ये कवचे पातिताः अभवन्। तेन रावणस्य मनागपि क्षतिः नाभवत्।

तद् दृष्ट्वा सर्वास्त्रकुशलः श्रीरामः परमास्त्रेण रावणस्य ललाटम् अभिनत्, किन्तु तदस्त्रं रावणेन निवारितं भूत्वा बाणरूपं त्यक्त्वा पञ्चमुखसर्पः भूत्वा भूमौ प्राविशत्। रघुनन्दनस्य अस्त्रं निवारयन् क्रोधेन रावणः आसुरं सुमहाघोरम् अन्यदस्त्रं क्षेप्तुम् आरभत। महातेजाः रावणः क्रोधेन श्वसन् श्रीरामस्य उपरि सिंहव्याघ्रमुखान् कङ्ककाकमुखान् गृध्रश्येनमुखान् शृगालवदनान् च बाणान् अक्षिपत्। रावणस्य तानि अस्त्राणि दृष्ट्वा महातेजाः श्रीरामोऽपि अग्निदीप्तमुखान्, सूर्यमुखान्, ग्रहनक्षत्रवक्त्रान् विद्युज्जिह्वोपमान् च बाणान् अक्षिपत्। तस्मात् रावणस्य घोराः सर्वे शराः राघवास्त्रसमाहताः अभवन्। अक्लिष्टकर्मणा रामेण युद्धे रावणस्य तदस्त्रं हतं दृष्ट्वा कामरूपिणः सर्वे कपयः अत्यन्तं हृष्टाः अभवन्। सुग्रीवप्रमुखाः मुदिताः सर्वे वीराः तदा राघवं सम्परिक्षिप्य उच्चैः सिंहनादम् अकुर्वन्।

तस्मिन् प्रतिहते अस्त्रे रावणः द्विगुणः क्रुद्धः अभवत्। तदानीं सः मयेन विहितं रौद्रमस्त्रम् उत्स्रष्टुं निश्चयम् अकरोत्। ततः तस्य कार्मुकात् युगक्षये वाता इव शूलं , मुद्गरः, गदा, मुषलः, कूटपाशः इत्यादीनि विविधानि आयुधानि निस्सरन्ति स्म। ततः उत्तमास्त्रविदां वरः श्रीमान् राघवः परमास्त्रेण तदस्त्रम् अहन्। महात्मना राघवेण तस्मिन् प्रतिहते अस्त्रे कुपितः रावणः पुनः सौरास्त्रस्य प्रयोगम् अकरोत्। रावणस्य तदस्त्रमपि रामः बाणौघैः अच्छिनत्। तदस्त्रं हतं दृष्ट्वा राक्षसाधिपः रावणः दशभिः बाणैः श्रीरामम् अविध्यत्।

रावणस्य महाकार्मुकनिःसृतैः दशभिः बाणैः विद्धः भूत्वा अपि महातेजाः श्रीरामः मनागपि विचलितः नाभवत्, प्रत्युत रघुनन्दनः रामः बहुभिः शरैः रावणम् अविध्यत्। तस्मिन्नवसरे महाक्रुद्धः रामानुजः लक्ष्मणः रावणस्य ध्वजं सप्तभिः बाणैः नैकधा अच्छिनत्। ततः लक्ष्मणः तस्य सारथेः ज्वलितकुण्डलं शिरः एकेन बाणेन अच्छिनत्, अपिच सः रावणस्य गजकरोपमं धनुः पञ्चभिः शरैः अकर्तयत्। तस्मिन् समये राक्षसपुङ्गवः विभीषणः आप्लुत्य गदया रावणस्य नीलमेघनिभांश्च पर्वतोपमान् अश्वान् अहन्। भ्रातरं प्रति क्रुद्धः रावणः तदा अश्वहीनरथात् अवप्लुत्य प्रदीप्तां महाशक्तिम् आदाय विभीषणं प्रति अक्षिपत्। तदानीं महाबलः लक्ष्मणः ताम् अप्राप्तामेव शक्तिं त्रिभिः शरैः आकाशे हि अच्छिनत्।
–प्रदीपः!

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: राम, राम कथा, रामायण, रामायण कथा, लक्ष्मण हुए मूर्च्छित
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article दिल्लीनगरे १० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया इत्यस्य आयोजनम्
Next Article हिमाचले दी शान बाबा पहाड़ी गांधी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?