औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगाय संयुक्तप्रौद्योगिक्याः विकासे भारत-नॉर्वे-देशयोः मध्ये संवादः
नवदेहलीभारत-नॉर्वे-देशाभ्यां ‘फ्लाई ऐश’ (उड्डयन-भस्म), ‘स्टील स्लैग’ (लौह-किट्टम्), ‘रेड मड’ (रक्तपङ्कः) तथा च निर्माण-विध्वंस-कार्येभ्यः निर्गतानाम् अवकराणां (मलबा) संसाधनं कृत्वा मार्गनिर्माण-सामग्री, ‘जियोपॉलीमर कंक्रीट’ इत्यादीनि उपयोगिनि निर्माण-उत्पादानि सज्जीकर्तुं संयुक्तप्रौद्योगिक्याः विकासस्य सम्भावनानां विषये विचारविमर्शः कृतः अस्ति।
वैज्ञानिक-औद्योगिक-अनुसन्धान-परिषदा (सी.एस.आई.आर.) नॉर्वे-देशस्य अनुसन्धान-संस्थानेन ‘सिन्टेफ’ (SINTEF) तथा च नॉर्वे-देशस्य अनुसन्धान-परिषदा सह मिलित्वा अत्र ‘सीमेण्ट-निर्माण-क्षेत्रे अपशिष्टात् संसाधन-समाधानम्’ इति विषये भारत-नॉर्वे-संवादस्य आयोजनं कृतम्। अस्मिन् संवादे सी.एस.आई.आर.-संस्थायाः विविधानां प्रयोगशालानां प्रतिनिधयः, नॉर्वे-देशस्य वैज्ञानिकाः, नियामकसंस्थाः तथा च सीमेण्ट-निर्माण-उद्योगस्य प्रतिनिधयः सहभागिनः अभवन्।
संवादस्य प्रमुखाः उद्देश्याः बिन्दवः च –
संयुक्त-अनुसन्धानं प्रौद्योगिकी-सहयोगः च: आधिकारिकसूचनानुसारम् अस्य संवादस्य उद्देश्यम् औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगः, तेषां सतत-प्रबन्धनं तथा च तेभ्यः उपयोगिनः निर्माणसामग्र्याः निर्माणार्थं संयुक्त-अनुसन्धानस्य प्रौद्योगिकी-सहयोगस्य च सम्भावनानाम् अन्वेषणम् आसीत्।
हरित-रणनीतिक-सहभागिता: इयं पहलः भारत-नॉर्वे-देशयोः मध्ये ‘हरित-रणनीतिक-सहभागितायाः’ (ग्रीन स्ट्रैटेजिक पार्टनरशिप) अन्तर्गतं चक्रीय-अर्थव्यवस्थां, स्वच्छप्रौद्योगिकीम् अनुसन्धानसहयोगं च वर्धयितुं सम्बद्धा अस्ति।
चुनौतीनां समाधानं च विचारः: चर्चायां निर्माण-विध्वंस-अवशिष्टानां, स्टील स्लैग, फ्लाई ऐश, रेड मड इत्यादीनाम् औद्योगिक-अवशेषाणां प्रयोगः मार्गनिर्माणे, कंक्रीट-निर्माणे अन्यनिर्माणसामग्रीषु च कर्तुं सम्भावनासु विचारः कृतः। एतदतिरिच्य, एतेषाम् अपशिष्टानां प्रसंस्करणे, तकनीकी-मानकेषु, आर्थिक-व्यवहार्यतायां तथा च आपणेषु (बाजार) स्वीकार्यतायां विद्यमानानां चुनौतीनां विषये अपि गहनं चिन्तनम् अभवत्।
औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगाय संयुक्तप्रौद्योगिक्याः विकासे भारत-नॉर्वे-देशयोः मध्ये संवादः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
