By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः
राष्ट्रीयवार्ताः

फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः

डॉ.अमनदीप शर्मा
Last updated: 2026/11/12 at 7:40 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः
नवदेहलीकेन्द्रीयमन्त्रिणा श्रीसर्बानन्दसोनोवालमहोदयेन बुधवासरे सूचितं यत् फारस-खातिकातः (फारस की खाड़ी) दुबई-नगरं प्रति गच्छति लाइबेरिया-ध्वजयुक्ते एकस्मिन् तैलवाहक-पोते (ऑयल टैंकर) केनचित् वस्तुना (प्रोजेक्टाइल) आक्रमणं कृतम् अस्ति। अस्यां घटनायां चालकदलस्य (क्रू) चत्वारः सदस्याः आहताः (घायल) अभवन्, येषु एकः भारतीयः नागरिकः अपि अन्तर्भवति।इयं घटना मङ्गलवासरे तदा अभवत्, यदा ‘एम.टी. फुजैराह एनर्जी’ (MT Fujairah Energy) नामकं बृहत् तैलवाहकं जलयानम् (क्रूड कैरियर) अल-रुवाइस-स्थानात् दुबई-नगरं प्रति गच्छत् आसीत्।
प्रमुखाः बिन्दवः –
आहतस्य नाविकस्य स्थितिः: श्रीसोनोवालमहोदयेन सामाजिकमाध्यमे (सोशल मीडिया) सूचनां प्रसारयन् उक्तं यत् आक्रमणे चालकदलस्य चत्वारः सदस्याः आहताः जाताः। तेषु एकः भारतीयः नागरिकः आसीत्, यस्य सामान्याः क्षतयः अभवन्। सः अग्रिम-चिकित्सीय-परीक्षणाय सुरक्षितं तटम् आनीतः अस्ति।
अन्येषां नाविकानां सुरक्षा: मन्त्रिणा स्पष्टीकृतं यत् चालकदलस्य अवशिष्टाः १८ सदस्याः, येषु जलयाने स्थिताः पञ्च अन्ये भारतीयाः नाविकाः अपि सन्ति, ते सर्वे पूर्णतया सुरक्षिताः सन्ति तथा च सर्वेषां सम्पर्कः स्थापितः अस्ति।

You Might Also Like

शीतकालाय विधिवत् पिहितानि श्रीकेदारनाथधाम्नः कपाटानि

औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगाय संयुक्तप्रौद्योगिक्याः विकासे भारत-नॉर्वे-देशयोः मध्ये संवादः

कुलगाम-जनपदे सुरक्षाबलेषु आतंकवादिनाम् आक्रमणम्; केन्द्रीय-आरक्षि-बलस्य द्वौ सैनिकौ आहतौ

नोएडा-ग्रेटरनोएडा-नगरयोः मध्ये ‘एक्वा लाईन’ मेट्रो-परियोजनायाः विस्ताराय केन्द्रीयमन्त्रिमण्डलस्य स्वीकृतिः

जनहिते सर्वकारीय-कर्मचारिणाम् अनिवार्य-सेवानिवृत्तेः विषये सर्वकारस्य व्यापकः अधिकारः अस्ति – सर्वोच्चन्यायालयः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article नोएडा-ग्रेटरनोएडा-नगरयोः मध्ये ‘एक्वा लाईन’ मेट्रो-परियोजनायाः विस्ताराय केन्द्रीयमन्त्रिमण्डलस्य स्वीकृतिः
Next Article कुलगाम-जनपदे सुरक्षाबलेषु आतंकवादिनाम् आक्रमणम्; केन्द्रीय-आरक्षि-बलस्य द्वौ सैनिकौ आहतौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?