By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *बाहिरखण्डवैदिकसंस्कृतविद्यापिठे संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन समाचरितः * 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *बाहिरखण्डवैदिकसंस्कृतविद्यापिठे संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन समाचरितः * 
संस्कृतगतिविधयः

*बाहिरखण्डवैदिकसंस्कृतविद्यापिठे संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन समाचरितः * 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/08/28 at 7:37 PM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

*बाहिरखण्डवैदिकसंस्कृतविद्यापिठे संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन समाचरितः * 

 

अद्य संस्कृतसप्ताहमहोत्सवस्य चतुर्थदिने पश्चिमबङ्गप्रदेशस्य हूगलीमण्डले स्थिते वैदिकसंस्कृतविद्यापीठे, बाहिरखण्डे श्रावणपूर्णिमोत्सवः श्रद्धया हर्षोल्लासेन च समाचरितः।

 

कार्यक्रमे श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रः तथा अन्ये आचार्याः उपस्थिताः आसन्। तत्रत्यैः आचार्यैः, विद्यार्थिभिः तथा उपस्थितैः भक्तजनैः सह श्रावणपूर्णिमायाः पावनं पर्व श्रद्धापूर्वकं समाचरितम्।

 

कार्यक्रमस्य प्रमुखाकर्षणं तत्रत्यस्य महास्वामिनः संस्कृतेन प्रदत्तम् आशीर्वचनम् आसीत्। महास्वामिना संस्कृतभाषया एव रक्षाबन्धनस्य महत्त्वं प्रतिपादितम्। रक्षाबन्धनं केवलं पारिवारिकस्नेहस्य प्रतीकं न, अपितु भारतीयसंस्कृतेः, परस्परविश्वासस्य, स्नेहस्य च पवित्रं प्रतीकम् इति तेन प्रतिपादितम्। विशेषतः पश्चिमबङ्गप्रदेशे संस्कृतभाषायाः संरक्षणस्य, संवर्धनस्य तथा प्रचारप्रसारस्य आवश्यकता अपि तेन प्रभावपूर्णतया प्रतिपादिता।

 

तदनन्तरं महाविद्यालयस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रः संस्कृतभाषायाः महत्त्वं, तस्याः प्राचीनता, वैज्ञानिकता, भारतीयज्ञानपरम्परायां च तस्याः विशिष्टं स्थानं वर्णितवान्। संस्कृतस्य संरक्षणं केवलं भाषायाः संरक्षणं न, अपितु भारतस्य समृद्धस्य ज्ञानवाङ्मयस्य सांस्कृतिकपरम्परायाश्च संरक्षणम् इति सः अवदत्।

 

कार्यक्रमस्य समग्रसमन्वयं डॉ. शान्तनुकुमारचक्रवर्तिवर्यः कुशलतया कृतवान्। तस्य समन्वयेन कार्यक्रमः सुव्यवस्थितरूपेण सफलतया च सम्पन्नः।

 

अन्ते उपस्थितैः सर्वैः संस्कृतभाषायाः संरक्षणाय, संवर्धनाय, प्रचारप्रसाराय च सामूहिकरूपेण प्रयत्नः करणीयः इति संकल्पः कृतः। एवं संस्कृतसप्ताहमहोत्सवस्य चतुर्थदिवसः श्रावणपूर्णिमायाः पावनतया, संस्कृतभाषायाः गौरवेन च परिपूर्णः सन् सफलतया सम्पन्नः।

You Might Also Like

*मालदा जनपदे गौडचन्द्रघोषवालिकाउच्चविद्यालये संस्कृतदिवसोत्यापणम्* 

बालिका-संस्कृत-विद्यापीठे रक्षाबन्धन-संस्कृतदिवसयोः भव्यः समारोहः

बागपते जनपदीयाः संस्कृतगीत-सामान्यज्ञानप्रतियोगिताः सम्पन्नाः

संस्कृतसप्ताहसमारोहः भव्यः शुभारम्भः

नैमिषारण्ये संस्कृतसप्ताहे निबन्धप्रतियोगिता, भाषाक्रीडा च श्लोकान्त्याक्षरी च सम्पन्ना

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *मालदा जनपदे गौडचन्द्रघोषवालिकाउच्चविद्यालये संस्कृतदिवसोत्यापणम्* 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?