बालिका विद्यालय, मोतीनगर, लखनऊ इत्यत्र “गृहे गृहे संस्कृतम्” योजनायाः जुलैमासीय-द्वादशदिवसीय-शिक्षणवर्गस्य समापनम्
(संवाददाता – प्रवेशकुमारशुक्ल: , लखनऊ)
उत्तरप्रदेशशासनस्य स्वायत्तशासित: उत्तरप्रदेशसंस्कृतसंस्थानम् इत्यस्य सञ्चालनेन प्रवर्तमानायाः “गृहे गृहे संस्कृतम्” योजनायाः अन्तर्गतं जुलैमासीय-द्वादशदिवसीय-संस्कृतभाषाशिक्षणवर्गस्य समापनसमारोहः गुरुवासरे सम्पन्नः। अयं कार्यक्रमः संस्थानस्य कार्यकारी-अध्यक्षस्य मनीषचौहानमहोदयस्य तथा निदेशकस्य प्रेमेन्द्रकुमारगुप्त महोदयस्य निर्देशनान्तर्गतं समायोजितः।
लखनऊ-जनपदस्य बालिका विद्यालय, मोतीनगर इत्यत्र विद्यालयस्य प्रधानाध्यापिका डॉ. लीनामिश्रमहोदया स्वीये सम्बोधने उक्तवती यत् संस्थानेन प्रेषिता शिक्षिका डॉ. प्रेरिकाअग्रवालमहोदयायाः प्रभावी-पाठनपद्धत्याः माध्यमेन अस्मिन् शिविरे छात्राः छात्राश्च संस्कृतसम्भाषणस्य समुचितं लाभम् अवाप्नुवन्।मुख्यातिथिः – प्रो. रीतातिवारीमहोदया स्वीये उद्बोधने अवदत् यत् संस्कृतशिक्षणं केवलं व्याकरणपर्यन्तं न सीमनीयम्, अपितु संवादैः, कथाभिः, गीतैः, अभिनयेन, क्रीडाभिः तथा तान्त्रिकमाध्यमैः सह सम्बद्धं करणीयम्। ताभिः उक्तं यत् वेदाङ्गे शिक्षाशास्त्रे तथा पाणिनिशिक्षायां प्रतिपादितैः सिद्धान्तैः अस्याः योजनायाः सुदृढः सम्बन्धः विद्यते। अतः सर्वे प्रशिक्षकाः शिक्षाशास्त्रे वर्णितानाम् उच्चारणस्थानानाम् अनुकरणं कुर्वन्तः छात्रासु संस्कृतभाषायाः प्रति निष्ठां जनयेयुः। संस्कृतभाषा व्यवहारभाषारूपेण अध्यापनीया इत्यपि ताभिः प्रतिपादितम्।
कार्यक्रमस्य सञ्चालनं डॉ. प्रेरिकाअग्रवालमहोदया अकरोत्। प्रारम्भे वैष्णवीरावत इत्यनया सरस्वतीवन्दना प्रस्तुता। अन्ते प्रधानाध्यापिका डॉ. लीनामिश्रामहोदया धन्यवादज्ञापनम् अकरोत्। ततः सुमन इत्यनया प्रस्तुतेन कल्याणमन्त्रेण कार्यक्रमस्य समापनम् अभवत्।
बालिका विद्यालय, मोतीनगर, लखनऊ इत्यत्र “गृहे गृहे संस्कृतम्” योजनायाः जुलैमासीय-द्वादशदिवसीय-शिक्षणवर्गस्य समापनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
