ऑस्ट्रिया-देशस्य चान्सलर-महोदयः भारतस्य आधिकारिक-भ्रमणाय सम्प्राप्तः
ऑस्ट्रिया-देशस्य चान्सलरः डॉ. क्रिश्चियन स्टॉकरः गतदिने स्वस्य चतुर्दिवसीय-आधिकारिक-भ्रमणाय भारतं सम्प्राप्तः। विमानपत्तने युवा-कार्य-क्रीड़ा-राज्यमन्त्री रक्षा खडसे महोदया तस्य स्वागतं कृतवती।विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः सामाजिक-माध्यमे (Social Media) एकस्मिन् सन्देशे अलिखत् यत् भारत-ऑस्ट्रिया-देशयोः मध्ये सौहार्दपूर्णाः मैत्रीपूर्णाः च सम्बन्धाः सन्ति। सः उक्तवान् यत् चान्सलर-स्टॉकर-महोदयस्य अनेन भ्रमणन भारत-ऑस्ट्रिया-सन्धिः (Partnership) इतोपि गतिं प्राप्स्यति।
ऑस्ट्रिया-देशस्य चान्सलर-महोदयः भारतस्य आधिकारिक-भ्रमणाय सम्प्राप्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
