त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्
हिमसंस्कृतवार्ता: – त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकम् राष्ट्रिय-राजधान्यां नवदिल्ल्याम् आरब्धम्। अस्मिन् नव-दिवसीये आयोजने पञ्चत्रिंशदधिक-देशानाम् एक-सहस्राधिकाः प्रकाशकाः सहभागं कुर्वन्ति। कार्यक्रमस्य उद्घाटनं शिक्षा मन्त्री धर्मेन्द्र प्रधानः अकरोत्। अत्रावसरे श्रीप्रधानेन उक्तं यत् पुस्तकानि ज्ञानस्य संवाहकानि वर्तन्ते। इमानि सन्ततयः सभ्यतया स्मृत्या च सह संयोज्य समाजाय दिशः यच्छन्ति। तेन विश्व-पुस्तक-मेलापकं देशस्य पठन संस्कृतेः बृहत्तमः सार्वजनिकोत्सवःप्रतिपादितः । अवधेयमस्ति यत् भारतीयसैन्येतिहासः वीरता ज्ञानं च @75 इति अस्मिन् वर्षे विश्वपुस्तकमेलापकस्य विषयः अस्ति। अस्मिन् नव-दिवसीये आयोजने पञ्चत्रिंशदधिक-देशानाम् एक-सहस्राधिकाः प्रकाशकाः सहभागं कुर्वन्ति ।
त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
