HP NEWS – त्रय: तहसीलदारा: एचएएस-पदे पदोन्नता:, अनिलकुमार: मुख्यमंत्रिण: उपसचिव: नियुक्त:, अधिसूचना निर्गता
हिमसंस्कृतवार्ता:- शिमला।
राज्यसर्वकारेण त्रयः तहसीलदाराः हिमाचलप्रदेश- प्रशासनिकसेवायां पदोन्नता:। सुमेध शर्मा, गणेशठाकुर:, अनिलकुमार: च पदोन्नतिं प्राप्तवन्तः। राज्यप्रशासनिकसेवायां (एचएएस) रिक्तपदानि पूरयितुं प्रमुखप्रशासनिकनिर्णये तहसीलदाराणाम् अवसरान् प्रदातुं सर्वकारेण नियमेषु शिथिलीकरणं कृतम्। त्रयः अपि पदोन्नतिप्राप्ताः अधिकारिणः स्तरम्- १८ (५६,१००–१,७७,५०० रुप्यकाणां) वेतनमानस्य नियमितरूपेण एचएएस-संवर्गे नियुक्ताः सन्ति। एषा पदोन्नतिः पदग्रहणदिनात् आरभ्य प्रभावी भविष्यति। एषा पदोन्नतिः हिमाचल-उच्चन्यायालये लम्बितानां विविधानां याचिकानां अन्तिमनिर्णयस्य अधीनाः भवन्ति। एतेषु २००८ तः २०२५ पर्यन्तं प्रवेशिता: अनेकाः याचिकाः सन्ति, एतेषां याचिकानां अन्तिमपरिणामः पदोन्नतिम् अन्तिमरूपेण निर्धारितस्य अनन्तरमेव अन्तिमः भविष्यति।
पदोन्नतिप्राप्तानाम् अधिकारिणां आदेशस्य निर्गमनदिनात् एकमासस्य अन्तः FR-22 इत्यस्य अन्तर्गतं वेतननिर्धारणस्य विकल्पस्य प्रयोगः करणीयः भविष्यति। पदोन्नतिं कृत्वा अनिलकुमारः मुख्यमन्त्रिण: उपसचिवरूपेण नियुक्तः अस्ति। सः मुख्यमन्त्रीकार्यालये विशेषकर्तव्याधिकारी (OSD) इति अपि कार्यं करिष्यति। सुमेध शर्मा एवं गणेश ठाकुर इत्यनयो: पदस्थापन- सम्बन्ध्यादेश: पृथक्-पृथग्रूपेण निर्गत: भविष्यति। कार्मिकविभागेन निर्गताया: अधिसूचनानुसारं प्रत्यक्षनियुक्तिभागस्य अन्तर्गतं उपलब्धपदानां विरुद्धं एता: नियुक्तयः कृताः सन्ति। परन्तु एतत् एकवारं उपायरूपेण कार्यान्वितम् अस्ति। भविष्ये यदा कदापि एचएएस पदं तहसीलदारवर्गस्य अन्तर्गतं भवति तदा एतानि त्रीणि पदानि तस्मात् भागतः समायोजितं/पुनर्स्थापनं भविष्यति।
