मुख्यमंत्री सुक्खुः प्रदेशवासिभ्य: नववर्षस्य २०२६ इत्यस्य शुभकामना: अयच्छत्
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः राज्यस्य जनानां कृते २०२६ तमस्य वर्षस्य नववर्षस्य अभिनन्दनानि हार्दा: शुभकामनाश्च प्रकटितवान् यत् नूतनवर्षं भवतां सर्वेषां कृते अपारं सुखम् आनयतु, नवीनाः आशाः, नवीनसंकल्पाः, नवीनशक्तिः च प्रसारयतु इति। सः अवदत् यत् गतवर्षे राज्ये अनेकाः आपद: अभवन्, राज्यस्य जनाः च अनेकानां आह्वानानां सम्मुखीकरणं कर्तुं सर्वकारेण सह स्कन्धेन स्कन्धं सम्मिल्य स्थितवन्तः। अयं वर्षः अस्माकं राज्यस्य कृते विभिन्नक्षेत्रेषु विकासस्य, विलक्षणसाधनानां च वर्षः अभवत्। वयं शिक्षा, स्वास्थ्यं, कृषिः, आधारभूतसंरचना च इति विषयेषु नूतनान् मापदण्डान् निर्धारितवन्तः। मादकद्रव्यरहितस्य हिमाचलस्य कृते सर्वकारस्य अभियानस्य अपारं जनसमर्थनं प्राप्तम् अस्ति। भविष्ये अपि सर्वकारः स्वजनस्य राज्यस्य च हिताय दृढतया तिष्ठति।
मुख्यमंत्री सुक्खुः अवदत् यत् राज्यसर्वकारेण काङ्गड़ा- उपत्यकायाः कार्निवालः, शिमला- शीतकालीनकार्निवालः, डलहौजी- शीतकालीन- उत्सवः इत्यादीनां कार्यक्रमाणाम् आयोजनम् इत्यादय: नवीन-उपक्रमाः कृताः। नववर्षे आरब्धाः एताः उपक्रमाः राज्यस्य इतिहासे प्रथमवारं पर्यटन- उद्योगं वर्धितवन्तः। अस्माद् उपक्रमात् परं शिमला- चम्बा- धर्मशालानगरेषु पर्यटनयानस्य महती वृद्धिः अभवत्, येन अस्मिन् क्षेत्रे पर्यटनं वर्धितम्। सः हिमाचल-जनानाम् आह्वानं कृतवान् यत् ते अस्मिन् नववर्षे स्वराज्यं स्वच्छं, स्वस्थं, आत्मनिर्भरं च कर्तुं प्रतिज्ञां कुर्वन्तु। सः अवदत् यत् भवतः सहभागिता अस्माकं यथार्थं बलम् अस्ति। सः इच्छति स्म यत् एतत् नववर्षं सर्वेषां कृते सुखं, शान्तिं, अपारं समृद्धिं च आनयतु इति।
