*गाजोल-महाविद्यालये अन्तर्राष्ट्रीय-मानवाधिकार-दिवसस्य विशेष-व्याख्यान-कार्यक्रमः*।

गौडबङ्गविश्वविद्यालयस्य गाजोल-महाविद्यालये गीताञ्जलि-सभागृहे अन्तर्राष्ट्रीय-मानवाधिकार-दिवसस्यवसरे विशेष-व्याख्यान-कार्यक्रमः आयोजितः। गाजोल-महाविद्यालयस्य राज्यशास्त्र-विभागस्य प्रयासेन सम्पन्नः अयं कार्यक्रमः । आचार्य-आचार्याणां छात्र-छात्राणाम् आमन्त्रित-अतिथीनाञ्च सान्निध्येन अत्यन्तं सार्थकमयम् अभवत् एषः कार्यक्रमः।
कार्यक्रमस्य आरम्भे अतिथीनां स्वागतं राज्यशास्त्र-विभागस्य अध्यापकाः कृतवन्तः । अस्य आयोजन-समितेः संयोजिका राज्यशास्त्र-विभागस्य अध्यापिका ” डॉ. अपर्णा देवनाथः ” मानव-अधिकाराणां वैश्विकत्वम्, सामाजिक-न्याय-स्थापने नागरिकानां कर्तव्यं, युवावर्गस्य उत्तरदायित्वं च संक्षेपेण विवृण्वती तथा कार्यक्रमस्य उद्घाटनमपि कृतवती। कार्यक्रमे उपस्थिताः आसन्—गाजोल-महाविद्यालयस्य कार्यवाह-प्रधानाचार्यः “डॉ. निरङ्कुशः चक्रवर्ती” तथा भिन्नभिन्नविभागस्याचार्याः। यद्यपि गाजोलमहाविद्यालयस्य नवनियुक्तः प्राचार्याध्यक्षः डॉ. मनोजकुमारभोजवर्यः स्वशरीरेण कार्यक्रमेऽस्मिन् उपस्थितुं न शक्ता तथापि सः दृश्यश्रव्यध्वनियन्त्रस्य माध्यमेन सर्वेभ्यः शुभेच्छा-वक्तव्यं धन्यवादं च प्रेषितवान् ।
कार्यक्रमेऽस्मिन् मुख्य-अतिथिरूपेण उपस्थिताः आसन्—गाजोल-खण्डस्य खण्ड-विकास-अधिकारी (BDO) श्री बिप्लवकुमारविश्वासः (WBCS-Exe.), इंग्लिश-बाजार-नगरपालिकायाः कुलचराध्यक्षिका श्रीमती सुमला अगरवालः च ।
प्रथमं वक्तव्यम् अददात् श्रीमती सुमला अगरवालः। सा समाजस्यविकासाय मानव-अधिकाराणां महत्त्वं विशदं कृत्वा उक्तवती—
*“मानव-अधिकारस्य जागरूकतायां समाजे समता-सहकार-मानवता-स्थापनस्य मुख्यं साधनम्। युवा-वर्गः एतानि मूल्यानि समाजे प्रसारितुं अग्रे आगन्तुं समर्थाः भविष्यन्ति इति अनिवार्यम्।”*
तदनन्तरं BDO “श्री बिप्लवकुमारविश्वासः” अवदत्—
“मानव-अधिकाराः केवलं दस्तावेज-निबद्धाः न सन्ति, ते मनुष्य-मर्यादायाः अविभाज्याः आधाराः। समाजस्य सर्वेषु स्तरेषु मानवीय-मूल्यरक्षणं मुख्यलक्ष्यं भवितुम् अर्हति।”
सः सरकारी-कल्याण-योजनासु मानव-अधिकाराणां परिलक्षणं विस्तरेण विवृण्वानः आसीत्।कार्यक्रमस्य समापनकाले कतिपये शिक्षकाः छात्राश्च मानव-अधिकार-विषये स्वमतं प्रकटितवन्तः। आमन्त्रित-अतिथिभ्यः सम्मान-चिह्नानि प्रदानं कुर्वन्तः आसन्—विभागाध्यक्षः “मह. अकीदुल हक, डॉ. सुपार्थघोषः, डॉ. अमितकुमारप्रसादः, श्रीमान् विलासमहलदार: , डॉ. प्रियरञ्जनदाशः, डॉ. चन्दनप्रसादः, श्रीमती समाप्तिपालः अन्ये आयोजक-सदस्याः च ।कार्यक्रमोऽयं राज्यशास्त्र-विभागस्य सौजन्येन सम्पन्नः । छात्रेषु मानव-अधिकार-जागरूकतां संवर्धयन् समाजम् अधिकं मानवीयं न्यायसम्मतं च कर्तुं संकल्पं दृढीकृतवन्तः ।सर्वेः शान्तिमन्त्रेण कार्यक्रमस्य समापनं कृतवन्तः ।
