ये मादकद्रव्यतस्कराणां विषये सूचनां प्रदास्यन्ति ते १० सहस्रतः ५ लक्षरूप्यकाणां पुरस्कारं प्राप्स्यन्ति, इति मुख्यमंत्रिण: घोषणा

हिमसंस्कृतवार्ता: – धर्मशाला।
मुख्यमंत्री सुखविंदरसिंहसुक्खू सोमवासरे कांगड़ाजनपदस्य धर्मशालायां चिट्टाविरोधी-जागरूकता वॉकथॉनस्य नेतृत्वं कृतवान्। यात्रा दाड़ी-भूमौ आरब्धा, पुलिस-भूमौ च समाप्ता, यत्र विद्यालयस्य छात्राः, विभिन्नवर्गस्य जनाः च बहुसंख्याकाः भागं गृहीतवन्तः वाकथॉन्-क्रीडायाः समये बालकाः मादकद्रव्यविरोधी घोषान् उद्घोषयन्त: ऊर्जया, उत्साहेन च मार्गं कृतवन्तः । मुख्यमन्त्री स्वयं बालकैः सह दाड़ीभूमौ पुलिसक्षेत्रं यावत् अगच्छत्। अनेकस्थानेषु सः तै: सह संवादं कृत्वा अस्मिन् युद्धे सक्रियभूमिकां कर्तुं प्रोत्साहयति स्म । बालकाः अपि उत्साहेन तेन सह सेल्फी इति गृहीतवन्तः ।
पुलिस-भूमौ प्राप्ते मुख्यमन्त्री मादकद्रव्यतस्कर-सङ्घस्य कृते कठोरसचेतनाम् अयच्छत् यत् देवभूमौ मादकद्रव्य-तस्कराणां स्थानं नास्ति इति । सः अवदत् यत् पीआईटी, एनडीपीएस-अधिनियमः वर्षाणां यावत् कार्यान्वितः नासीत्, परन्तु वर्तमानराज्यसर्वकारेण तत् प्रभावीरूपेण कार्यान्वितम्, अधुना यावत् च अस्मिन् विधानस्य अन्तर्गतं ४६ प्रमुखाः मादकद्रव्य-तस्कराः निरुद्धाः सन्ति सः अवदत् यत् मादकद्रव्यस्य दुरुपयोगद्वारा अर्जितं प्रत्येकं अवैधधनं गृहीतं भविष्यति, राज्यसर्वकारेण च एतत् अधिनियमं पूर्णतया कार्यान्वितं कृत्वा मादकद्रव्यस्य दुरुपयोगे सम्बद्धानां विरुद्धं कठोरकार्याणि सुनिश्चितानि। अद्यावधि ₹46 कोटिरूप्यकाणां अवैधसम्पत्त्याः ग्रहणं कृतमस्ति।
मुख्यमन्त्री अवदत् यत् एषः नूतनः हिमाचलप्रदेश: अस्ति, यावत् मादकद्रव्यस्य दुरुपयोगस्य प्रत्येकं लेशं न निराकृतं तावत् युद्धं निरन्तरं भविष्यति। एतद् न केवलं मादकद्रव्यस्य तस्कराणां विरुद्धं युद्धं, अपितु तेषां सम्पूर्णं जालं मादकद्रव्यतस्करान् च उत्थापयितुं निर्णायकः संघर्षः अस्ति। सः अवदत् यत् यः कोऽपि अस्माकं भविष्यत्सन्ततीन् मादकद्रव्याणां दुरुपयोगं कर्तुं प्रयतते सः साक्षात् कारावासं गमिष्यति, तेषां क्रीडा तत्रैव समाप्ता भविष्यति।
सुखविन्दरसिंहसुक्खुः अवदत् यत् एएनटीएफ, एसटीएफ, पुलिस, शिक्षा, स्वास्थ्यं, सामाजिकन्यायविभागाः अपि च प्रत्येकः नागरिकः अधुना मादकद्रव्यस्य दुरुपयोगस्य विरुद्धं एकीकृतः तिष्ठति। सः अवदत् यत् सः अद्य अत्र न मुख्यमन्त्रीरूपेण, अपितु युनां भविष्यस्य रक्षणार्थं कवचरूपेण उपस्थितः अस्ति। सः स्पष्टीकरोति यत् एतद् युद्धं केवलं अभियानमेव एव नास्ति, अपितु इदानीं मिशनमोड् प्रविष्टस्य युनां उज्ज्वलभविष्यस्य रक्षणार्थं व्यापकं युद्धम् अस्ति।
चिट्टातस्कराणां विषये सूचनां प्रदातृभ्य: पुरस्कारः
मुख्यमन्त्री उक्तवान् यत् सर्वकारस्य पुरत: अनेकानि आह्वानानि आसन् तेषां सम्मुखीकरणं च साहसेन अकरोत्। प्रमुखमादकद्रव्यतस्कराणां, अन्तरराज्यदलानां च मेरुदण्डं भङ्गयितुं सर्वकारः सफलः अभवत् । सः समाजस्य सर्वेभ्यः वर्गेभ्यः सहकार्यस्य आह्वानं कृत्वा चिट्टाविषये सूचनां प्रकटी-कृत्वा पुरस्कारं घोषितवान्। सः अवदत् यत् चिट्टा-इत्यस्य विषये सूचनाप्रदातृभ्य: द्विग्रामपर्यन्तं सूचनां १०,००० रुप्यकाणि, पञ्चग्रामस्य कृते २५ ००० रुप्यकाणि २५ ग्रामस्य कृते ५०,००० रुप्यकाणि, १ किलोग्रामस्य कृते ५ लक्षरूप्यकाणि, १ किलोग्रामात् अधिकमात्रायां चिट्टा-इत्यस्य सूचनायाः कृते १० लक्षरूप्यकाणि च पुरस्कारराशि: प्रदत्ता भविष्यति। सः अपि अवदत् यत् बृहत्-दलानां विषये सूचनाः प्रदातुं ५ लक्ष-रूप्यकात् अधिका: पुरस्कारराशि: भविष्यति।
