By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/11/06 at 2:59 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE
  1. कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्

 

नलबारी, ०४ नवम्बर २०२५ (असम): कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्ततया प्रवर्त्यमानायाः ‘‘शास्त्रमन्थनम्’’ इत्यस्य १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं गुरुनानकदेवस्य जीवनधर्मदर्शनविषयकं गभीरचिन्तनमयम् आसीत्। धर्मः, दया, समता, मानवसेवा, विश्वबन्धुत्वभावना च गुरुनानकदेवस्य चिन्तनस्य आधारभूततत्त्वानि इति अस्मिन् व्याख्याने सूक्ष्मतया प्रकाशितानि।

 

अस्य व्याख्यानस्य मुख्यवक्त्री आसीत् पंजाबविश्वविद्यालयस्य दर्शनविभागस्य प्रतिष्ठिता विदुषी आचार्या डॉ. शिवानी शर्मा महोदया। तया गुरुनानकदेवस्य जीवनस्य ऐतिहासिकम्, आध्यात्मिकं समाजसंस्कारकं च रूपं मनोहारिण्या शैल्या निरूपितम्। गुरुनानकदेवस्य “एकंकार” इति सिद्धान्तस्य दार्शनिकपरिमाणम्, भक्तिमार्गस्य अद्वितीयत्वं गुरु–शिष्यपरम्परायाः महत्त्वं च विस्तरेण प्रतिपादितम्। तया अस्य गुरुदर्शनस्य सार्वकालिकता, समन्वयदृष्टिः, समाजे समभावसंदेशस्य प्रासङ्गिकता च उद्भाविता। तया उक्तं हि ईश्वरः एकः एव, वयं च सर्वे तेषां सन्ततयरिति।

 

कार्यक्रमस्य अध्यक्षपदे विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लाद-रा. जोशी महोदयः आसीत्। तेन उवाच यत् गुरुनानकदेवः केवलं धार्मिकमहापुरुषः न आसीत्, प्रत्युत सर्वमानवजगतः प्रकाशस्तम्भः आसीत् इति। तेन भारतीयदर्शनपरम्परायां समन्वयतत्त्वस्य स्थानं व्याख्याय विद्यार्थिनां कृते प्रेरणा च दत्ता।

 

विभागाध्यक्षः डॉ. रणजीतकुमार तिवारी महोदयः स्वागतोपसंहारभाषणेन व्याख्यानस्य मूलतः अवबोधनीयतत्त्वानि निरूप्य, विश्वविद्यालयस्य सर्वदर्शनविभागस्य प्रयत्नः देशस्तरीयं दार्शनिकसंवादमण्डलम् उन्नीयते इति प्रकाशयामास।

 

अस्मिन् अवसरे देशस्य विविधान् विश्वविद्यालयेभ्यः आगताः आचार्याः, अनुसन्धानविज्ञाः, शोधार्थिनः, अध्येतारः छात्राः च उपस्थितासन्। सर्वदर्शनमन्थनपरिषदः अध्यक्षः श्री पुलक उपाध्यायः, विभागीयसहायिका सुश्री लोपामुद्रा गोस्वामी, अतिथ्यध्यापिका सुश्री सीमा वर्मन् च विशेषतया आसन्। आयोजकसमितेः कुशलव्यवस्थापनं सर्वैः प्रशंसितम्।

 

कार्यक्रमस्य शुभारम्भः विभागीयशोधछात्रेण लिराज काफ्लेमहोदयेन वैदिकमङ्गलाचरणेन आध्यात्मिकभावनया सम्पन्नः। तेन एव कार्यक्रमस्य संचालनं निर्भ्रान्ततया सुबोधतया च कृतम्। अन्ते तेनैव सुसंस्कृत्या कृतज्ञतापूर्वकं धन्यवादप्रस्तावः अर्पितः।

 

अन्ते शान्तिमन्त्रपाठेन कार्यक्रमस्य समापनं विधिविधानुसारं सम्पन्नम्। विश्वविद्यालयेन सूचितं यत् एषा व्याख्यानमाला अनवरतं प्रवर्तिष्यते, येन भारतीयदर्शनपरम्परायाः गाम्भीर्यम्, बहुलोचना संवादसंस्कृतिः च दृढीभविष्यति।

 

विश्वविद्यालयपरिसरे ज्ञानसरस्वत्याः पवित्रप्रवाहः इव विचारविनिमयस्य वातावरणं दीर्घकालं यावत् स्मरणीयं जातम्।

You Might Also Like

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

मुंबई-नगरे श्रीमन्नारायणीयपारायण-प्रतियोगिता तथा प्रश्नोत्तरी सफलतया सम्पन्ना

आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article महिलाक्रिकेटविश्वचषकविजेतृृणां स्वागतं कृतवान् प्रधानमन्त्री नरेन्द्रमोदी
Next Article Indian Women Cricket Team – प्रधानमंत्रिण: मोदिन: एकाकिन्यै मात्रे नमनम्, रेणुका ठाकुर अपि भावुकाभवत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?