By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता
हिमाचलवार्ता

हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता

डॉ.अमनदीप शर्मा
Last updated: 2025/09/02 at 6:34 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता
हिमसंस्कृतवार्ता:- शिमला। अधुना हिमाचलसर्वकारेण आपदाप्रबन्धन- विधानानुसारं सम्पूर्णं हिमाचलम् आपदाप्रभावितं इति घोषितम्। चम्बा-काङ्गड़ा-जनपदयोः भ्रमणं कृत्वा मुख्यमन्त्री सुक्खुः सोमवासरे विधानसभायां वक्तव्यं दत्त्वा एतां घोषणां कृतवान्। मुख्यमन्त्री उक्तवान् यत् अधुना सर्वेषां मण्डलानां उपायुक्ताः स्वस्थित्यानुसारं आपदाप्रबन्धनविधानस्य उपयोगं कर्तुं शक्नुवन्ति। आपदाप्रभावित इति घोषणाया: अनन्तरं हिमाचलम् भारतसर्वकारात् सहयोगं प्राप्तुं साहाय्यं अपि प्राप्स्यति। एतेन सह मुख्यमन्त्री भाजपानेतु: पूर्वमुख्यमन्त्रिण: च शान्ताकुमारस्य पत्रस्य समर्थनस्य च सदने धन्यवादं दत्तवान्। सः अवदत् यत् शान्ताकुमारः केन्द्रसर्वकारेण विपत्विरुद्धं युद्धाय हिमाचलाय २०,००० कोटिरूप्यकाणां विशेषसहायतापुटं दातुम् आग्रहं कृतवान्। एतेन सह सः प्रधानमन्त्रिणं स्वपत्रे अपि लिखितवान् यत् तटेषु स्थितस्य २ लक्षकोटिरूप्यकाणां अदावितधनात् आपदाश्रयं दातव्यम् इति। मुख्यमन्त्रिणः आग्रहेण विधानसभाध्यक्ष: कुलदीपसिंहपठानिया शान्ताकुमारस्य अस्य आग्रहस्य समर्थने संकल्पं पारितं कृतवान्। मुख्यमन्त्री अवदत् यत् २१ अगस्ततः १ सितम्बरपर्यन्तं चम्बा, कुल्लू:, लाहौल-स्पीति:, मण्डी, काङ्गड़ा, शिमला, हमीरपुरम् इत्येतेषु जनपदेषु हानिः अभवत्। एतावता ३००० कोटिरूप्यकाधिकं हानिः अभवत्।मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः पूर्णतया सज्जतापूर्वकम् आश्रय-उद्धार-कार्यक्रमेषु प्रवृत्तः अस्ति। मणिमहेशयात्रायां निरुद्धानां १५००० तीर्थयात्रिकाणां मध्ये १००० यात्रिकाणां सुरक्षितरूपेण निष्कासनं कृतं, शेषयात्रिकाणां कृते विमानसेवायाः व्यवस्था क्रियते। सः अवदत् यत् एतावता मणिमहेशे १६ जनाः मृताः। कुगतीस्थले अधुनापि चत्वारि पार्थिवशरीराणि सन्ति, तेषां निष्कासनार्थं मण्डलप्रशासनेन २० वाहकानां व्यवस्था कृता अस्ति। मुख्यमन्त्री उक्तवान् यत् सः स्वयमेव चम्बां गतः, राजस्वमन्त्री जगतसिंहनेगी अद्यापि भरमौरे शिविरं कुर्वन् अस्ति।

लोकनिर्माणमन्त्री विक्रमादित्यसिंह:, अधीक्षण- अभियंता लोकनिर्माणविभाग:, मुख्याभियंता धर्मशाला, डीआईजी कांगड़ा इत्येतै: सह मण्डलायुक्त: कांगड़ा-चम्बा प्रेषिता: सन्ति। मुख्यमन्त्री उक्तवान् यत् चम्बा पठानकोटमार्गः सर्वेषां वाहनानां कृते उद्घाटितः अस्ति, चम्बातः भरमौरपर्यन्तं २५ किलोमीटर चम्बा, सलूनी, पदरीजोतमार्गः उद्घाटितः अस्ति येन जम्मू-कश्मीरतः यात्रिकाः अस्मिन् मार्गेण प्रेषयितुं शक्यन्ते। भरमौरे प्रचलति उद्धारकार्यस्य कृते काङ्गड़ातः त्रयः उपग्रह-दूरभाषयन्त्राणि अपि प्रदत्तानि सन्ति, एयरटेल-संस्थायाः २जी- जालस्य पुनर्स्थापनं च कृतम्।मुख्यमन्त्री उक्तवान् यत् कुल्लू मण्डी राष्ट्रियराजमार्गस्य जीर्णोद्धारकार्यं प्रचलति, यदा तु कटौलामार्गः लघुवाहनानां कृते उद्घाटितः अस्ति। शाकादिवाहनानि प्रथमं गच्छन्ति। एनएचएआई- अधिकारिणः अपि कुल्लू मनाली-मध्ये कृतस्य क्षते: पुनर्स्थापनार्थं गताः सन्ति। बञ्जारं विहाय सम्पूर्णे कुल्लुक्षेत्रे संचारव्यवस्था पुनः स्थापिता, पुरातनमनालीसेतुः अपि पुनः स्थापितः अस्ति। लाहौल-स्पीतौ अपि स्थितिः सामान्या भवति, हेलिकॉप्टरद्वारा गर्भवतीं बालकं च सहितं कुलपञ्च रोगिणः निष्कासिताः सन्ति।
आवश्यकता भवति चेत् यन्त्राणि उत्थापयितुं चक्रविमानानि आहूतानि भविष्यन्ति
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भरमौरे चक्रविमानद्वयं स्थापितं, परन्तु ऋतु: बाधकः भवति। आवश्यकता चेत् यन्त्रं उत्थाप्य यत्र मार्गः भग्नः अस्ति तत्र नेतुम् आवश्यकं भवति चेत् सेनाचक्रविमानम् अपि आहूतम् भविष्यति। सूचनां दत्त्वा मुख्यमन्त्री उक्तवान् यत् मार्गं उद्घाटयितुं जेएसडब्ल्यू कम्पन्याः पोकलेन यन्त्रं स्थापितम्। प्रातःकाले तस्मिन् महती शिला पतिता, तस्मात् बहु क्षतिः अभवत्। तथापि चालकः सर्वथा सुरक्षितः अस्ति। अस्मिन् कार्ये एतादृशानि आह्वानानि सम्मुखीभवन्ति।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
Next Article नवदेहली-नगरे जी.एस.टी. परिषदः षट्पञ्चाशतमम् सम्मेलनम् आरभत।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?