By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
हिमाचलवार्ता

Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्

डॉ.अमनदीप शर्मा
Last updated: 2025/09/02 at 6:32 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

Himachal Floods – उच्चजलप्रलयस्तरात् उपरि सतलुजनद्याः जलस्तरः, शिमलानगरस्य तत्तापानीस्थाने सेतुं स्पृष्टवान्
१. सतलुजनदी तत्तापानी इत्यत्र संकटसंकेताद् उपरि।
२. शिमलायां २६७ मार्गाः निरुद्धा:, जीवनं बाधितम्।
३. विद्युत्-जलापूर्ति च स्थगिता।

हिमसंस्कृतवार्ता: – शिमला। शिमलामण्डले अत्यधिकवृष्ट्या सतलुजनद्याः प्रकोपः अस्ति। सतलुजनद्याः जलं तत्तापानी इत्यत्र उच्चजलप्रलयस्तरं प्राप्तवान्। सतलुजनदी तत्तपानी इत्यत्र उच्चजलप्रलयस्तरात् २ मीटरोपरि प्रवहति, तत्तपानीसेतुम् अपि स्पृष्टवान् अस्ति। अस्य कारणात् नदीतीरे ग्रामाणां कृते संकटः उत्पन्नः अस्ति। तस्मिन् एव काले प्रचण्डवृष्ट्या मण्डले जीवनं प्रायः स्थगितम् अस्ति। मार्गाणां बन्दीकरणात् संपर्कः प्रायः स्थगितः अस्ति। जिलाप्रशासनतः प्राप्तसूचनानुसारं २६७ मार्गाः निरुद्धा: अभवन्। एतेषु २६१ संयोजकमार्गाः ६ मुख्यमार्गाः च निरुद्धा: सन्ति। अस्य कारणात् नित्यवस्तूनाम् आपूर्तिः न क्रियते। अस्मिन् मण्डले ७२२ मार्गाः विद्युत्परावर्तका: च बाधिता: सन्ति। अस्य कारणात् सहस्राणि ग्रामेषु विद्युत् कटितम् अस्ति। अस्य कारणात् जनानां अन्धकारे एव वसितुं भवति। एतदतिरिक्तं मण्डले २७२ जलयोजना: अपि स्थगिता: सन्ति, जलापूर्ति: अपि स्थगिता अस्ति। जनाः प्रशासनात् आग्रहं कृतवन्तः यत् शीघ्रमेव स्थितिः सुदृढा भवेत्, येन जनानां समस्याः न्यूनीकर्तुं शक्यन्ते।
ठियोगे ४० मार्गाः निरुद्धा:
लोकनिर्माणविभागस्य ठियोगविभागस्य मत्याना, सैंज, ठियोग उपमण्डलस्य आहत्य ११३ मार्गेषु भूस्खलनस्य मलिनावशेषेण च ४० मार्गाः पूर्णतया निरुद्धा अभवन्। विभागाधिकारिणः वदन्ति यत् केवलं गतदिनद्वये एव मार्गेषु क्षतिः प्रायः २ कोटिरूप्यकाणि यावत् अभवत्। तस्मिन् एव काले अस्मिन् वर्षर्तौ ठियोग-विभागस्य अद्यावधि २० कोटिरूप्यकाणां कुलहानिः अभवत्। जोगशा- कुमारसैन- संयोजकमार्गे विशालवृक्षस्य, मलिनावशेषस्य च पतनेन मार्गः अवरुद्धः अस्ति।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अमितशाह: जम्मू-कश्मीरस्य तोय-प्लव-प्रभावित-क्षेत्राणां च यात्रां सम्पाद्य प्रभावित-जनानां सुरक्षोद्धार-कार्याणां समीक्षां कृतवान्
Next Article हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?