भारतं प्रथमस्य मानव-अन्तरिक्षयान अभियानस्य गगनयानस्य कृते पूर्णतया सज्जः – रक्षामंत्री राजनाथसिंहः
हिमसंस्कृतवार्ता: – रक्षामंत्री राजनाथसिंहः अवदत् यत् भारतं प्रथमस्य मानव-अन्तरिक्षयान-अभियानस्य गगनयानस्य कृते पूर्णतया सज्जः अस्ति। एतत् न केवलं प्रौद्योगिकीय-उपलब्धिः अपितु आत्मनिर्भर भारतस्य यात्रायाः नूतनः अध्यायः अस्ति। रक्षामंत्री नवदेहल्यां गगनयान-अभियानस्य कृते चितानां यात्रिणां ग्रूप्-कैप्टन-शुभांशु-शुक्ल, प्रशान्त-बालकृष्णन् नायर्, अजित-कृष्णन्, अङ्गद् प्रतापः इत्येतेषां सम्मान-समारोहं सम्बोधयन् एतत् उक्तवान्। मन्त्री अवदत् यत् भारतेन चन्द्रतः मङ्गलपर्यन्तं स्वस्य उपस्थितिं पूर्वमेव पंजीकृतम्। अस्मिन् अवसरे भारतीय-वायुसेनायाः ग्रूप्-कैप्टन शुभांशु शुक्लः सद्यः एव स्वस्य अन्ताराष्ट्रिय-अन्तरिक्षस्थानकस्य यात्रायाः विषये उक्तवान्।
भारतं प्रथमस्य मानव-अन्तरिक्षयान अभियानस्य गगनयानस्य कृते पूर्णतया सज्जः – रक्षामंत्री राजनाथसिंहः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
