By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतपुरोधसां च क्रोशमापकपाषाणवद् योगदानम् — डॉ॰ ब्रह्मदेवरामः तिवारी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतपुरोधसां च क्रोशमापकपाषाणवद् योगदानम् — डॉ॰ ब्रह्मदेवरामः तिवारी
संस्कृतगतिविधयः

स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतपुरोधसां च क्रोशमापकपाषाणवद् योगदानम् — डॉ॰ ब्रह्मदेवरामः तिवारी

डॉ.अमनदीप शर्मा
Last updated: 2025/08/18 at 9:01 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतपुरोधसां च क्रोशमापकपाषाणवद् योगदानम् — डॉ॰ ब्रह्मदेवरामः तिवारी

लखनऊ, (अगस्तमासः, लल्लनबाबूमौर्यः)संस्कृतभाषा केवलं देववाणी न, अपि तु राष्ट्रजागरणस्य जीवनस्रोतः आसीत्।
स्वाधीनतासङ्ग्रामे संस्कृतपुरोधसां लेखनं वचनं च प्रेरणामूलकं समासीत्।
गीता-सत्याग्रहः, वैदिकसन्देशः च क्रान्तिकारिणां हृदयेषु तेजः प्रज्वालितवत्यौ।
एवं संस्कृतविदुषां योगदानं भारतस्य स्वातन्त्र्ययात्रायाः कृते अत्यन्तं महत्वपूर्णं वर्तते। इत्येतद् आधृत्य
उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकस्य श्रीविनयश्रीवास्तवस्य सानिध्येन प्रशासनिकस्य दिनेशकुमारमिश्रस्य प्रेरणेन योजना-प्रभारिणः श्रीभगवानसिंहचौहानस्य मार्गदर्शनेन च अधिपङ्क्ति ऑनलाइन-शिक्षणपाठ्यक्रमनिर्माणयोजनान्तर्गतानां संस्कृतशिक्षणकक्षाणां परतया “स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतविदुषां च भूमिका” इत्यस्मिन् विषय उपरि प्रेरणासत्रमाचरितम्।
सत्रस्य शुभारम्भः प्रशिक्षकेण राजनदुबे इत्यनेन मङ्गलाचरणेन कृतः। अस्य सत्रस्य मुख्यवक्ता मेघालयराज्यसर्वकारस्य राज्यपालस्य आयुक्तः सचिवश्च डॉ॰ ब्रह्मदेवरामः तिवारी अवर्तत। तेन स्ववक्तव्ये उदीरितं यत् अनेन स्वातंत्र्यस्य अमृतकालेन सह अस्माकं हुतात्मनामेव न अपितु संस्कृतविदुषामपि महत्वभूतं योगदानं वर्तते। भारतवर्षं “वसुधैव कुटुम्बकम्” इत्यनेन भावेण ओतप्रोतं राष्ट्रम्। अस्माकं राष्ट्रं नैतिकमूल्यानां प्रधान्येन युक्तम्। स्वातंत्र्यात् पूर्वं नैतिकमूल्यानां कारणात् एव अस्माकं राष्ट्रस्य विभाजनं जातम्।

स्वामिदयानन्दसरस्वती, बालगङ्गाधरतिलकः, पण्डिता क्षमारावः, अम्बिकादत्तव्यासः इत्यादयः ये साहित्यं व्यरचयन्, तत् भारतीयस्वाधीनतायै अमृततुल्यं कार्यम् अकरोत्। विशेषतः पण्डितक्षमारावस्य सत्याग्रहगीता देशस्य क्रान्तिकारिणां प्रेरणास्रोतः अभवत्। महात्मनो गान्धिनोऽपि गीताम् एव आधारं स्वीकृत्य सत्य-अहिंसयोः पाठम् अशिक्षयत्।

सत्रस्य विषय-उपस्थापनं समन्वयकः धीरजमैठाणी कृतवान्। सः संस्कृतसाहित्यपद्यानि उद्धृत्य “पराधीनता गर्हिता” इति प्रतिपाद्य सर्वेषां ध्यानं सत्रस्य शीर्षकं प्रति समाकृष्टवान्। तेन उक्तं यत् विविधेषु विषयेषु प्रशिक्षणप्रमुखस्य मार्गदर्शने प्रेरणासत्राणि सञ्चालयन्ते।

निवेदकप्रशिक्षकेषु अंशुगुप्ता वक्तृपरिचयं प्रास्ताविकं भाषणं, गणेशदत्तद्विवेदी मञ्चसञ्चालनं , लल्लनबाबूमौर्यः वृत्तलेखनं सूचना-प्रदानेन समम् अन्ते आभारप्रदर्शनं विनयप्रकाशतिवारी च अकुर्वन्।

सत्रे शिक्षार्थिषु अपि कक्षागत-अनुभवकथनं निलेशेन, संस्कृतगीतं बालेन विनायकेन, कोमलगौतमेन सरस्वतीवन्दना, रमेशचन्द्रेण संस्थानगीतिका, स्वातीधयगुडेन स्वागतगानं सत्रावसाने प्रीति शर्मणा शान्तिमन्त्रद्वारा समापनं च अकुर्वन् ।

अस्मिन् सन्दर्भे सर्वे शिक्षार्थिनः, अभिभावकाः, सामाजिक-संस्कृतानुरागिणः विद्वज्जनाः च समुपस्थिताः आसन्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: डॉ॰ ब्रह्मदेवराम
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां एकादश-सहस्रकोटिरूप्यकाणां द्वयोः राष्ट्रियराजमार्ग-परियोजनयोः उद्घाटनं विहितवान्
Next Article संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?