स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतपुरोधसां च क्रोशमापकपाषाणवद् योगदानम् — डॉ॰ ब्रह्मदेवरामः तिवारी
लखनऊ, (अगस्तमासः, लल्लनबाबूमौर्यः)संस्कृतभाषा केवलं देववाणी न, अपि तु राष्ट्रजागरणस्य जीवनस्रोतः आसीत्।
स्वाधीनतासङ्ग्रामे संस्कृतपुरोधसां लेखनं वचनं च प्रेरणामूलकं समासीत्।
गीता-सत्याग्रहः, वैदिकसन्देशः च क्रान्तिकारिणां हृदयेषु तेजः प्रज्वालितवत्यौ।
एवं संस्कृतविदुषां योगदानं भारतस्य स्वातन्त्र्ययात्रायाः कृते अत्यन्तं महत्वपूर्णं वर्तते। इत्येतद् आधृत्य
उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकस्य श्रीविनयश्रीवास्तवस्य सानिध्येन प्रशासनिकस्य दिनेशकुमारमिश्रस्य प्रेरणेन योजना-प्रभारिणः श्रीभगवानसिंहचौहानस्य मार्गदर्शनेन च अधिपङ्क्ति ऑनलाइन-शिक्षणपाठ्यक्रमनिर्माणयोजनान्तर्गतानां संस्कृतशिक्षणकक्षाणां परतया “स्वाधीनतासङ्ग्रामे संस्कृतभाषायाः संस्कृतविदुषां च भूमिका” इत्यस्मिन् विषय उपरि प्रेरणासत्रमाचरितम्।
सत्रस्य शुभारम्भः प्रशिक्षकेण राजनदुबे इत्यनेन मङ्गलाचरणेन कृतः। अस्य सत्रस्य मुख्यवक्ता मेघालयराज्यसर्वकारस्य राज्यपालस्य आयुक्तः सचिवश्च डॉ॰ ब्रह्मदेवरामः तिवारी अवर्तत। तेन स्ववक्तव्ये उदीरितं यत् अनेन स्वातंत्र्यस्य अमृतकालेन सह अस्माकं हुतात्मनामेव न अपितु संस्कृतविदुषामपि महत्वभूतं योगदानं वर्तते। भारतवर्षं “वसुधैव कुटुम्बकम्” इत्यनेन भावेण ओतप्रोतं राष्ट्रम्। अस्माकं राष्ट्रं नैतिकमूल्यानां प्रधान्येन युक्तम्। स्वातंत्र्यात् पूर्वं नैतिकमूल्यानां कारणात् एव अस्माकं राष्ट्रस्य विभाजनं जातम्।
स्वामिदयानन्दसरस्वती, बालगङ्गाधरतिलकः, पण्डिता क्षमारावः, अम्बिकादत्तव्यासः इत्यादयः ये साहित्यं व्यरचयन्, तत् भारतीयस्वाधीनतायै अमृततुल्यं कार्यम् अकरोत्। विशेषतः पण्डितक्षमारावस्य सत्याग्रहगीता देशस्य क्रान्तिकारिणां प्रेरणास्रोतः अभवत्। महात्मनो गान्धिनोऽपि गीताम् एव आधारं स्वीकृत्य सत्य-अहिंसयोः पाठम् अशिक्षयत्।
सत्रस्य विषय-उपस्थापनं समन्वयकः धीरजमैठाणी कृतवान्। सः संस्कृतसाहित्यपद्यानि उद्धृत्य “पराधीनता गर्हिता” इति प्रतिपाद्य सर्वेषां ध्यानं सत्रस्य शीर्षकं प्रति समाकृष्टवान्। तेन उक्तं यत् विविधेषु विषयेषु प्रशिक्षणप्रमुखस्य मार्गदर्शने प्रेरणासत्राणि सञ्चालयन्ते।

निवेदकप्रशिक्षकेषु अंशुगुप्ता वक्तृपरिचयं प्रास्ताविकं भाषणं, गणेशदत्तद्विवेदी मञ्चसञ्चालनं , लल्लनबाबूमौर्यः वृत्तलेखनं सूचना-प्रदानेन समम् अन्ते आभारप्रदर्शनं विनयप्रकाशतिवारी च अकुर्वन्।
सत्रे शिक्षार्थिषु अपि कक्षागत-अनुभवकथनं निलेशेन, संस्कृतगीतं बालेन विनायकेन, कोमलगौतमेन सरस्वतीवन्दना, रमेशचन्द्रेण संस्थानगीतिका, स्वातीधयगुडेन स्वागतगानं सत्रावसाने प्रीति शर्मणा शान्तिमन्त्रद्वारा समापनं च अकुर्वन् ।
अस्मिन् सन्दर्भे सर्वे शिक्षार्थिनः, अभिभावकाः, सामाजिक-संस्कृतानुरागिणः विद्वज्जनाः च समुपस्थिताः आसन्।
