Online संस्कृतशिक्षणम् आमुखपटलसमूहे जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
हिमसंस्कृतवार्ता:, वार्ताहर: – डॉ. नरेन्द्र राणा
जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। प्रतियोगितायामस्याम् उत्तरप्रदेशात् देव भास्कर: प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थानं रघुनन्दन रावल: (अध्यापक:) राजस्थानत:, तृतीय-स्थाने च उत्तराखंडात् ऋषभ जोशी वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजिका बिहारत: संस्कृतशिक्षिका प्रीति झा, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। पुरस्कार-प्रायोजिका प्रीति झा सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृत रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।
जयतु संस्कृतम्। जयतु भारतम्।।