अन्तर्जालेन प्राप्तुं शक्यते HRTC- बसयात्रापत्रम्, ‘हिम-बस-प्लस’ योजना अपि अनुमोदिता
हिमसंस्कृतवार्ता:- शिमला। उपमुख्यमन्त्रिण: मुकेश अग्निहोत्रिण: अध्यक्षतायां हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) निदेशकमंडलस्य बसस्थानकप्रबंधन- प्राधिकरणस्य च सभा आयोजिता। सः अवदत् यत् राज्यसर्वकारस्य उद्देश्यं परिवहनसेवा: जनानां कृते सुविधाजनकं कर्तुं, एताः सेवाः च आधुनिकप्रौद्योगिक्या सह सम्बद्ध्य निगमस्य कार्याणि पारदर्शी लाभप्रददिशि नेतुम् अस्ति। अस्मिन् अवसरे उपमुख्यमंत्रिणा निगमस्य कार्यं अधिकं डिजिटलं प्रभाविनं च कर्तुं चत्वार: नूतना: सूचनाप्रौद्योगिकीसॉफ्टवेयर-प्रकल्पा: अपि प्रारब्धा:। सः अवदत् यत् निगमेन अपकर्षयुतपरिपत्रस्य (रियायती बसपास) कृते ऑनलाइन-व्यवस्था विकसिता अस्ति। अधुना छात्राः, राज्यसर्वकारस्य कर्मचारिण:, व्यापारिकवर्गः च ऑनलाइन-पासस्य आवेदनं कर्तुं शक्नुवन्ति। पास-करणाय देयराशिः अपि ऑनलाइनरूपेण निक्षेपितुं शक्यते। निगमेन कर्गदरहितं RFID आधारितं पासकार्डं निर्गतं भविष्यति।
एतदतिरिक्तं नूतना अङ्कीयनिरीक्षणव्यवस्था अपि आरब्धा, यस्याः माध्यमेन अधुना सर्वेषां बसयानानां विषये सूचनाः एस. एम. एस. एतदतिरिक्तं शिमलानगरस्य ८२ बसयानेषु जीपीएस- आधारित- बसनिरीक्षण-व्यवस्था आरब्धा, या सर्वेषु बसयानेषु चरणबद्धरूपेण कार्यान्विता भविष्यति, एतेन सह एच. आर. टी. सी. हिम एक्सेस इति नूतनं मञ्चम् अपि आरब्धम् अस्ति, यस्य माध्यमेन निगमस्य नवसहस्राधिकाः कर्मचारिण: स्व- व्यक्तिगत- सूचनाः, वेतनसम्बद्धानि विवरणानि च ऑनलाइनरूपेण द्रष्टुं शक्नुवन्ति। मुकेश अग्निहोत्री इत्यनेन उक्तं यत् राज्ये सर्वत्र विविधबस-आगारस्य पुनर्स्थापनाय, परिपालनाय च सप्तकोटिरूप्यकाणां राशिः व्ययिता भविष्यति। यात्रिकाणां सुरक्षायै सर्वेषु बस-आगारेषु सीसीटीवी-यन्त्राणि स्थापितानि भविष्यन्ति। बिलासपुरस्य ‘मण्डी-भराड़ी’ इत्यत्र आधुनिकं बस- आगारं स्थापितं भविष्यति, येन यात्रिकाणां कृते अत्याधुनिकसुविधाः प्रदातुं शक्यन्ते। सः अवदत् यत् राज्ये विद्युत्बसयानस्य आगमनात् पूर्वं आवश्यकमूलसंरचनानां व्यवस्था सुनिश्चित्य यथाशीघ्रं बस-आगारेषु कार्यशालासु च ई-चार्जिंगस्थानकानि स्थापितानि भविष्यन्ति। संचालकमण्डलेन ‘हिम बस प्लस’ इति नूतनयोजनायाः प्रारम्भस्य अनुमोदनं कृतम्। एषा योजना परिचयप्रबन्धनं नगदरहितदेयकं च एकीकृत्य स्थापयिष्यति। अस्याः योजनायाः अन्तर्गतं कार्डधारकाणां कृते एचआरटीसी-प्रबन्धनस्य सर्वेषां बसयानानां (वोल्वो-सहितस्य) भाटके ५% अपकर्ष: दीयते। एतस्य अतिरिक्तं यात्रिकाणां कृते एतस्य कार्डस्य उपयोगेन प्रतिमासं यात्रायाः आधारेण निष्ठाकार्यक्रमस्य अन्तर्गतं कैशबैक अपि दीयते। मुकेश अग्निहोत्री इत्यनेन उक्तं यत् निजीक्षेत्रस्य प्रतिस्पर्धां दृष्ट्वा हिमाचलक्षेत्रे सुपर लग्जरी बसयानानां भाटकं १५% न्यूनीकर्तुं निर्णयः कृतः। यात्रिकै: ‘हिम बस प्लस’ पत्रेण सह यात्रायाम् अतिरिक्तं ५% अपकर्षेण साकं आहत्य २०% पर्यन्तं अपकर्षं प्राप्स्यते।
अन्तर्जालेन प्राप्तुं शक्यते HRTC- बसयात्रापत्रम्, ‘हिम-बस-प्लस’ योजना अपि अनुमोदिता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
