भारत-यू.के. इत्येतौ देशौ ऐतिहासिके मुक्तव्यापारसमन्वये हस्ताक्षरं कृतवन्तौ; प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत्, समन्वयमिदं उभयराष्ट्रयोः संयुक्त-समृद्धेः मार्गम् प्रशस्तं करोति ।
हिमसंस्कृतवार्ता: – भारत-ब्रिटेन देशौ ऐतिहासिक-पदक्षेपम् अनुसरन्तौ स्वतन्त्रव्यापारसन्धौ हस्ताक्षरं कृतवन्तौ। चेकर्स इत्यत्र स्वकीयेन ब्रिटिश-समकक्षीयेण कीर-स्टार्मर इत्यनेन सह वार्ताहरसम्वादे प्रदत्ते वक्तव्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् भारत-ब्रिटेनदेशयोः द्विपाक्षिकसम्बन्धानाम् ऐतिहासिकः दिवसः अस्ति । सः प्रसन्नतां प्रकटितवान् यत् अनेकवर्षाणाम् परिश्रमस्य अनन्तरं द्वयोः राष्ट्रयोः मध्ये समग्र-आर्थिक-व्यापार-सन्धिः अभवत् । सः अवोचत् यत् एषा सन्धिः भारत-ब्रिटेन-देशयोः संयुक्त-समृद्धेः मार्गम् प्रशस्तं करोति । सः प्रोक्तवान् यत् भारतीयवस्त्राणि, पादत्राणानि, रत्र-आभूषणानि, समुद्रजातानि खाद्यानि,अभियान्त्रिक-वस्तूनि च ब्रिटेनदेशे उत्तमविपणनावसरान् प्राप्स्यन्ति । सः अकथयत् यत् इयं सन्धिः भारतस्य यूनां, कृषकाणां, मत्स्यपालकानां, एम्.एस्.एम्. ई. इति क्षेत्राणां कृते च विशिष्टरूपेण लाभप्रदा भविष्यति । ब्रिटेन-देशस्य प्रधानमन्त्री कीर-स्टार्मरः अवदत् यत्, मुक्तव्यापार-सन्धिः बृहत्तमा आर्थिकदृष्ट्या च महत्वपूर्णा अस्ति । सः प्रधानमन्त्रिणे मोदिने तस्य नेतृत्वस्य व्यावहारिकतायाः च कृते धन्यवादं प्रायच्छत् ।
भारत-यू.के. इत्येतौ देशौ ऐतिहासिके मुक्तव्यापारसमन्वये हस्ताक्षरं कृतवन्तौ
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
