मानसूनसत्रम्-2025 विपक्षिदलानां चर्चायाः अभ्यर्थनायाः अनन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम्
हिमसंस्कृतवार्ता: – विपक्षिदलानां विरोध-प्रदर्शनस्य कारणेन सोमवासरे लोकसभायाः राज्यसभायाः च सदनयोः प्रवर्तमाने कार्याचरणे समुद्भूतायाः बाधायाः अनन्तरं कार्याचरणं सम्पूर्ण-दिवसाय स्थगितम् जातम् । विपक्षिदलैः सिंदूराभियानं, बिहारे विशिष्ट-गहन संशोधनं, चेत्यादिषु अन्यप्रकरणेषु चर्चायाः अभ्यर्थना कृता अस्ति । यदा लोकसभायाः द्वितीय-स्थगनस्य अनन्तरम् अपराह्ने द्विवादने पुनरुपवेशनं समारभत, तदा विपक्षिसदस्यैः पुनः उच्चवनिर्घोषः समारब्धः । संसदीय-प्रकरण-मंत्रिणा किरेन रिजिजू इत्यनेन विपक्षि-दलानाम् आलोचना कुर्वता प्रोक्तं यत् सर्वकारः चर्चायै सज्जः अस्ति परञ्श्च विपक्षिदलानि चर्चा विहाय व्यवधानम् अचिन्वन् । एतादृशानां दृश्याणाम् अनन्तरम् एव राज्यसभायां कार्याचरणस्य स्थगनम् सञ्जातम् ।
मानसूनसत्रम्-2025 विपक्षिदलानां चर्चायाः अभ्यर्थनायाः अनन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
