अमेरिकादेशात् अपाचे हेलिकॉप्टर् इति वायुयानानां प्रथमः समूहः भारतम् प्राप्तः
हिमसंस्कृतवार्ता: – भारतीयसेनायाः शक्तौ अभिवृद्धिक्षेत्रे एकः नवीनः अध्यायः युक्तोभवत् । अमेरिकादेशात् अपाचे हेलिकॉप्टर् इति वायुयानानां प्रथमः समूहः भारतम् प्राप्तः। एतानि अत्याधुनिक हेलिकॉप्टर्-वायुयानानि, प्रायः वायौ वातकोषाः कथ्यन्ते यतो हि एतेषां उन्नत-युद्ध-क्षमता अभियांत्रिकी च उच्चस्तरीया वर्तते । उन्नतशस्त्रैः, संवेदकैः, सर्वविधवतावरणे सञ्चालनक्षमताभिः च सुसज्जितमिदं यानम् । येन भारतीयसेनायाः विमानयुद्धशक्तिः इतोपि वर्धते। भारतीयवायुसेनया अमेरिकीयसर्वकारेण बोइङ्ग् इत्यनेन सह च द्विसहस्रपञ्चदशतमे वर्षे कृतक्रयसहमत्यनुसारं द्वाविंशतिः एतानि अपाचेहेलीकाप्टर्यानानि क्रीतानि ।
अमेरिकादेशात् अपाचे हेलिकॉप्टर् इति वायुयानानां प्रथमः समूहः भारतम् प्राप्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
