वटपूजनम्
वंशवृद्धेः प्रतीकं वै
धरायां च वटवृक्षाः।
विज्ञानं निहितं धर्मे
सनातनमलौकिकम्।।
भर्तुः दीर्घायुषे देशे
पूजन्ति महिलाः वटं।
पर्यावरणरक्षणं
तेन च जायते सदा।।
न्यग्रोधवृक्षशाखायाः
वृक्षं तु जायते पुनः।
भवेत् कुलस्य विस्तारः
भार्या प्रत्येकमिच्छति।।
पातिव्रत्येन सावित्री
पतिप्राणान् च मेधया।
अहरत् हि कृतान्तात् वै
ख्याता पुरातनी कथा।।
विधिषु जायते नित्यं
कालेन परिवर्तनं।
अधुनापि परं स्त्रीयः
पूजन्ति श्रद्धया वटम्।।
क्षेमाय परिवारस्य
भर्तुश्च श्रेयसे तथा।
वृक्षपरिचयं तस्मात्
संवर्धनं तथैव च।।
पूजनं वृक्षशाखायाः
कर्तयित्वा न कर्तव्यम्।
पर्यावरणहानिर्वै
केवलं तेन जायते।।
बहुपाद्पूजनं कार्यं
कृत्वा पादपरोपणं।
वर्धयित्वा वनक्षेत्रं
गेहे ग्रामान्तरे च वै।।
सुखीनः जन्तवः तस्मात्
हरिता च वसुन्धरा।
तरुपुष्पफलैरेव
सृष्टिरेषा मनोरमा।।
मानसीदीक्षितः।