बॉबी देओल: रानी मुखर्जी च इत्येतयोः बिच्छू चलच्चित्रस्य ‘उत्तरकथा’ इत्यस्य निर्माणं भविष्यति
वार्ताहर: – जगदीश डाभी, मुम्बई ।
प्राप्तवार्तानुसारं बॉबी देओल: २०२३ तमे वर्षे ‘एनिमल’ इति चलच्चित्रेण चलच्चित्रक्षेत्रे प्रचण्डं पुनरागमनं कृतवान् । अस्य चलच्चित्रस्य अनन्तरं बॉबी देओल: निरन्तरं चलच्चित्रप्रस्तावः प्राप्नोति । ‘एनिमल’ चलच्चित्रस्य सफलता पश्चाद् बॉबी इत्यस्य प्रशंसकैः ‘लॉर्ड बॉबी’ इति नामाङ्कनं कृतम् अस्ति । अधुना लॉर्ड बॉबी इत्यस्य पुरातनचलच्चित्रेण सह सम्बद्धं महती वार्ता आगता। बॉबी देओल: इत्यस्य सफलं चलच्चित्रं ‘बिच्छू’ २००० तमे वर्षे प्रदर्शितम् भवति स्म । अस्मिन् चलच्चित्रे रानी मुखर्जी बॉबी इत्यनेन सह मुख्यभूमिकायां आसीत् । बॉबी, रानी च इत्यस्य ‘बिच्छू’ चलच्चित्रं जनानां कृते रोचते स्म । ७.५० कोटिरूप्यकाणाम् आय-व्ययकेन निर्मितस्य अस्य चलच्चित्रं बक्स् आफिस-मध्ये १९.७५ कोटिरूप्यकाणि अर्जितानि । अधुना च अस्य बॉबी-रानीयोः चलच्चित्रस्य उत्तरकथा निर्मितुं गच्छति। बिच्छू चलच्चित्रस्य निर्माता गुड्डू धनोआ अद्यैव न्यूज १८ इत्यनेन सह भाषितवान् । तस्मिन् एव वार्तालापे धनोखा इत्यनेन उक्तं यत् सः बिच्छू इत्यस्य उत्तरकथां निर्मातुम् उद्यतः अस्ति। उत्तरकथायाः कार्यम् अपि आरब्धम् अस्ति । इति बॉबी देओल: रानी मुखर्जी च इत्येतयोः बिच्छू चलच्चित्रस्य ‘उत्तरकथा’ इत्यस्य निर्माणं भविष्यति।