दशमकक्षायां प्रज्ञाजयसवालः द्वादशीकक्षायां च प्रियलद्विवेदी प्रथमं स्थानं प्राप्तवत्यौ।
MP Board 10th-12th Result 24-2025
(वार्तास्रोत: अमर उजाला)
मध्यप्रदेशमाध्यमिकशिक्षामण्डलेन २०२५ तमस्य वर्षस्य दशमीद्वादशीबोर्डपरीक्षयो: परिणामोद्घोषित: ।परिणामस्य घोषणया सहैव द्वयोः कक्षयोः छात्राणाम् उत्तीर्णताप्रतिशतं, शीर्षस्थछात्राणां नामानि च प्रकाशितानि सन्ति। शीर्षसूच्यां राज्यस्य विभिन्नजनपदानां तेजस्विन्य: छात्राः स्वयोग्यतां प्रतिभां च प्रर्दशितवत्य:।
अस्मिन् वर्षे दशमवर्गस्य उत्तीर्णताप्रतिशतं ७६.२२% इत्यस्ति। “इण्टरमीडिएट” इत्यस्य समग्रं उत्तीर्णताप्रतिशतं ७४.४८% इत्यस्ति । प्रज्ञा जायसवाल: दशमीकक्षायां शीर्षस्थानं प्राप्तवती। तत्रैव प्रियलद्विवेदी द्वादशीकक्षायां शीर्षस्थानं प्राप्तवती ।