नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य द्वितीय संस्करणस्य उद्घाटनम्
हिमसंस्कृतवार्ताः। केन्द्रीययुव- कार्यक्रम- खेलमन्त्री डॉ. मनसुख मण्डाविया अपराह्ने नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य द्वितीय संस्करणस्य उद्घाटनम् अकरोत्। राष्ट्रिय-राजधान्यां त्रिषु स्थलेषु क्रीडाः आयोज्यन्ते। क्रीडामन्त्री उक्तवान् यत् खेलोइण्डिया-कार्यक्रमान्तर्गतं, भारते क्रीडा-पारिस्थितिकी तन्त्रं तीव्रतया विकसितं भवति, तथा च क्रीडकानां प्रदर्शने महत्वपूर्ण-परिष्कारः भवति। असौ कथितवान् यत् पेरिसनगरे आयोजितायां गतपैरालिम्पिक प्रतियोगितायां भारतीयक्रीडकाः नवविंशतिपदकानि विजित्य असाधारणप्रदर्शनं कृतवन्तः। असौ अस्य वर्षस्य खेलोइण्डिया- पैरागेम्स इत्येतस्यां प्रतियोगितायां भागग्रहीतेभ्यः क्रीडकेभ्यः शुभकामनाः प्रदत्तवान्। अयं कार्यक्रमः अस्य मासस्य सप्तविंशति-दिनाङ्क यावत् दिल्ल्याम् आयोजयिष्यते। त्रयोदश-शताधिकाः क्रीडकाः षड्क्रीडायोजनेषु भागं ग्रहीष्यन्ति। अद्य प्रातः इन्दिरा गान्धी-क्रीडाङ्गणे पैरा- बैडमिण्टन- प्रतियोगितायाः उद्घाटनम् अभवत्। जवाहरलाल नेहरू- क्रीडाङ्गणे श आरभ्य पैरा-एथलेटिक्स, शनिवासरात् पैरा-आर्चरी, रविवासरात् पैरा-पावरलिफ्टिङ्ग इत्येतस्याः प्रतियोगितायाः आरम्भं भविष्यति। डा. कर्णी सिंहः शूटिङ्ग्रेज इत्यत्र पैरा- शूटिङ्ग- स्पर्धाः आरभ्यन्ते। अस्य संस्करणस्य कृते पैरा-फुट्वाल इतीदं निष्कासितम् अस्ति। जनाः दूरदर्शनस्य वाहिन्यां प्रत्यक्षप्रसारणं द्रष्टुं शक्नुवन्ति।
नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य द्वितीय संस्करणस्य उद्घाटनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
