हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन एससीइआरटी सोलनम्
हिमसंस्कृतवार्ताः डॉ.अमनदीपशर्मा सोलनम्। हिमाचलप्रदेशस्य राज्यशैक्षणिकानुसन्धानं प्रशिक्षणपरिषदि सोलने (एससीइआरटी सोलन) पञ्चदिवसीय शिक्षकाणां प्रशिक्षणकार्यशालायाः आयोजनं क्रियते। कार्यशालेयं 17 मार्चतः 21 मार्चपर्यन्तं चलिष्यति। कार्यशालायाः तृतीये दिवसे पञ्जाबविश्वविद्यालयस्य प्रशिक्षकेन अनुजगुप्ता इत्यनेन एच5पी इत्यस्मिन् विषये विस्तारपूर्वकं व्याख्यायितं किञ्च तस्य प्रायोगिकं पक्षमपि कारितम्। तेनोक्तं यत् शैक्षणिकचित्रेषु चलचित्रेषु च कथं छात्राः सुरुचिपूर्णतया योजनीया इति समयस्य आवश्यकता वर्तते किञ्च छात्राणाम् अधिकतया शैक्षणिककार्येषु सहभागिता भवेत् एतदर्थं प्रयत्नः विधेय़ः। कार्यशालायाः द्वितीये सत्रे आई.टी क्षेत्रे सिद्धदक्षेण मनीषतोमरवर्येण प्रतिपादितं यत् कथं स्लोमोशन इत्यस्य प्रयोगेण कथं एनिमेशनाधारितं चलचित्रं निर्मातुं शक्यते। अस्मिन्नावसरे फ्लिपक्लिप, एनीमेकर इत्यादीनां नूतनप्रोद्योगिकीनां प्रायोगिकम् अभ्यासं शिक्षकैः कारितम्। प्रशिक्षणकार्यशालायाम् आगतेन विज्ञानविषयस्य शिक्षकेन राजनवर्येणोक्तं यत् एससीइआरटी सोलन द्वारा प्रशिक्षणस्य यत् प्रारूपं निर्मितमस्ति तत् निश्चयेन शिक्षकाणां समग्रविकासस्य दिशि क्रान्तियुक्तः निर्देशः भविष्यति। तेन एससीइआरटी इत्यस्य प्राचार्यायाः, कार्यक्रमसंयोजिकायाः मंगेशकुमार्याः विशेषं धन्यवादं ज्ञापितं यैः एतादृशं प्रशिक्षणं कल्पितम्। एससीइआरटी परिषदः प्राचार्याः रजनीसांख्यायनः उक्तवती यत् हिमाचलम् इ-पाठ्यक्रमनिर्माणे सर्वोत्कृष्टं राज्यं भवेत् एतदर्थम् अस्माकं प्रयासाः नितरां प्रचलन्ति येन निश्चयेन लक्ष्यसाधना भविष्यतीति।
हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
