वक्फ (संशोधन) विधेयकं निर्धनमुस्लिमवर्गाणां पक्षे अस्ति-संयुक्तसमित्याः अध्यक्षः जगदम्बिका पालः
हिमसंस्कृतवार्ताः। वक्फ (संशोधन) विधेयकविषये संसदः संयुक्तसमित्याः अध्यक्षेण जगदम्बिका पालेन उक्त यत् एतत् विधेयकं निर्धनमुस्लिमवर्गाणां पक्षे अस्ति। वक्फसंशोधनविधेयकस्य विषये अखिलभारतीयमुस्लिमपर्सनल लॉ मण्डलस्य विरोधे श्रीपालः नवदिल्ल्यां वार्ताहरैः सह संवादक्रमे उक्तवान् यत् अल्पसंख्यकसमुदायेषु सर्वकारं विरुध्य मिध्यापवादाः प्रसार्यन्ते । सः अवदत् यत्, सर्वकारेण विधेयकं संयुक्तसंसदीयसमित्याः समीपे प्रेषितं येन मुस्लिमसङ्घटनैः अन्यैः हितधारकैश्च सह परामर्श कृत्वा न्यायपूर्ण सन्तुलितं च विध्याः निर्माणं भवेत्।
वक्फ (संशोधन) विधेयकं निर्धनमुस्लिमवर्गाणां पक्षे अस्ति-संयुक्तसमित्याः अध्यक्षः जगदम्बिका पालः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
