केन्द्रीय-गृहमन्त्री-अमितशाहः असमस्थ गोलाघाटे आवासीय परियोजनानाम् आधारशिलाम् अस्थापयत्
केन्द्रीय-गृह्मन्त्री-अमितशाहः असमस्थ गोलाघाट जनपदस्य डेरग्रामे अत्याधुनिक लचित – बरफुकन आरक्ष्याकादम्याः उद्घाटनम् अकरोत्। अत्रावसरे सः आरक्ष्याकादम्याः आवासीय -परियोजनानामपि आधारशिलाम् अस्थापयत्। एतस्मिन्नुपक्रमे तेन प्रोक्तं यत् आगामिषु पञ्चवर्षेषु इयं आरक्ष्याकादमी भारतस्य सर्वश्रेष्ठाकादमी भविष्यति। गृहमन्त्रिणा प्रोदीरितं यत् असमराज्यं जवीयगत्या विकासयात्रां कुर्वदस्ति सहैव प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे राज्ये शान्तिस्थापनमपि समभवत् । श्रीशाहेन विज्ञापितं यत् केन्द्र राज्याय त्रिलक्षकोटिरुप्यकाणां परियोजनाः प्रदास्यति येन क्षेत्रे आधारभूत संरचनाः समेधिष्यन्ते। श्री शाहेन प्रोक्तं यत् प्रधानमन्त्री-मोदिनः प्रयासकारणादेव राज्यस्य सर्वैरपि उग्रवादि सङ्घटनैः शान्तिवार्तायां भागं स्वीकृतम् तथैव बहुभिः सङ्घटनैश्च समर्पणञ्चापि विहितम्। अत्रावसरे असमस्य मुख्यमन्त्री हेमन्त-बिस्वा-सरमा इत्येषः प्रोक्तवान् यदद्य असमारक्षिदलाय कश्चन महत्त्वपूर्णदिवसः वर्तते। सहैव महानायकाय लचित-बरफुकनवर्याय अयं भावमय-श्रद्धाञ्जलिः अपि वर्तते। मुख्यमन्त्रिणा प्रोक्तं यत् राज्यसर्वकारः अस्मिन्नेव परिसरे आरक्षि-चिकित्सकीय-शैक्षणिक संस्थानस्य उद्घाटनार्थं योजनां संकल्पयति। श्रीसरमा इत्यमुना अग्रे कथितं यत् राज्ये विधिव्यवस्थायाः स्थितिः विगतदशकापेक्षया अत्युत्तमा वर्तते। एवमेव अपराधकृत्येष्वपि पञ्चाशत्प्रतिशतमितं यावत् अपचितिः दृश्यते। केन्द्रीय-जलमार्गमन्त्री सर्वानन्द सोनोवालः प्रोक्तवान् यत् अत्याधुनिक-आरध्यकादमी नवीनयुगस्य अपराधान् सम्मुखीकर्तुं देशे सर्वश्रेष्ठारक्षिदलस्य निर्माणं विधास्यति। अत्रावसरे विदेश-राज्यमन्त्री पवित्रा मार्गेरिटा एवं अन्ये गणमान्याश्चापि उपस्थिताः आसन् ।
केन्द्रीय-गृहमन्त्री-अमितशाहः असमस्थ गोलाघाटे आवासीय परियोजनानाम् आधारशिलाम् अस्थापयत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
