सर्वकारः भारतम् आत्मनिर्भरं कर्तुं सततं विकासपथे कार्यरतः अस्ति-प्रधानमन्त्री
अर्थव्यवस्थायां लघुद्योगाः महत्त्वपूर्णा भूमिकाम् आवहन्ति।
हिमसंस्कृतवार्ता। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् सर्वकारः भारतम् आत्मनिर्भरं कर्तुं सततं विकासपथे कार्यरतः अस्ति अधुना च एतदर्थं परिष्कारेषु तीव्रता आनीयते । तेनोक्तं देशेन गतदशवर्षेषु स्वप्प्रतिबद्धता परिष्कारान् प्रति आर्थिकानुशासनं प्रति पारदर्शितां च प्रति दर्शिता अस्ति। लघूद्योगानां विषये चर्चयता श्रीमोदिना उक्तं यत् अर्थव्यवस्थायां एते उद्योगाः महत्त्वपूर्णा भूमिकाम् आवहन्ति । प्रधानमन्त्री दृश्यथव्यमाध्यमेन वित्तसंकल्पनापत्रानन्तरं लघूद्योगानां विषये भाषमाणः आसीत् । व्यापारसरलीकरणसन्दर्भ सर्वकारस्य पदक्रमाणां विषये चर्चयता श्रीमोदिना उक्तं यत् वित्तसंकल्पनापत्रे निर्माणस्य तथा च निर्यातस्य सन्दर्भ महत्त्वपूर्णाः पदक्रमाः उत्थापिताः सन्ति। प्रधानमन्त्री उक्तवान् यत् शोधः विकासश्च भारतस्य निर्माणाभिक्षमतायां महत्त्वपूर्णा भूमिकाम् आवहति। आधुनिकक्रीडनकानां पादत्राणानां तथा च चर्मोद्योगानां क्षेत्रे भारतस्य क्षमतां विश्वं सम्यक्तया परिचिनोति । तेन एतेषु उद्योगेषु अग्रगण्याः निवेदिताः यत् ते केवलं दर्शकभूताः मा भवेयुः अपितु वैश्विक-आपूर्तिक्षेत्रे अवसरान् पश्येयुः। प्रधानमन्त्रिणा प्रोक्तं यत् अधुना मुख्यतया क्रियात्मक-उत्पादानां निर्माणे एव अवधानं भविष्यति येषां वैश्विकस्तरे अभियाचनं वर्तते। पीएल् आई प्रोडक्भू लिंकडू इंसेटिव इति योजनायाः अन्तर्गतं पञ्चाशत्सहस्रकोटिरूप्यकाणां निवेशः सञ्जातः अस्ति तथा च त्रयोदशलक्षकोटिरूप्यकाणां उत्पादनं सज्जातम् अस्ति ।
प्रधानमन्त्री -सर्वकारः भारतम् आत्मनिर्भरं कर्तुं सततं विकासपथे कार्यरतः अस्ति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
