Delhi Election- जनादेशार्थं देहलीवास्तव्यानां जनानां समक्षे नतमस्तकोऽस्मि-प्रधानमन्त्री
हिमसंस्कृतवार्ताः। देहल्याः विधानसभायाः निर्वाचनपरिणामः भारतीयजनतापक्षे आगतः। अस्मिन् सन्दर्भे भारतीयजनतादलस्य कार्यकर्तृषु विशेषोत्साहः दृष्टः। कारणं स्पष्टमस्ति यत् भाजपा दलेन 27 वर्षानन्तरं देहल्यां सत्तायाः स्वप्नं साकारं कृतम्। भारतीय जनता पार्टी इति दलेन प्रायः त्रिदशकानन्तरं दिल्ली-विधान-सभा निर्वाचनेषु निर्णायकविजयोऽधिगतः, दलेन विद्यमान-आम-आदमी-पार्टी इति दलं पराजित्य बहुमताङ्ङ्कः प्राप्तः। साम्प्रतं यावत् सप्तति-विधानसभा-आसनेषु पञ्चषष्टि-आसानानां घोषित परिणामेषु भाजपेति-दलेन चतश्चत्वारिंशत्-आसनानि विजितानि सन्ति अपि च चतुर्षु आसनेषु अग्रेसरं वर्तते अपरञ्च आप इति दलेन एकविंशति-आसनानि विजितानि सन्ति अथ च एकस्मिन् आसने अग्रेसरं वर्तते । कांग्रेसाख्येन तृतीय-प्रतिस्पर्धि-दलेन एकमपि आसनं न विजितम् । भाजपेति दलीयेषु प्रमुख विजेतृषु- नव-दिल्लीतः प्रवेश साहिब सिंहः रोहिणीतः विजेन्द्र गुप्ता करावलनगरतः कपिलमिश्रादयः विजेतारः सन्ति।
प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना दिल्ली विधानसभानिर्वाचने तद्-दलाय जनैः प्रदतस्य जनादेशाय जनतायाः कृते कार्तज्ञता-भावं प्राकटयत्। प्रधानमन्त्रिणा सञ्चारतन्त्रे प्रदत्ते सन्देशे कथितं यत् एतस्य विशिष्टस्य ऐतिहासिक-जनादेशार्थं सः देहलीवास्तव्यानां जनानां समक्षे नतमस्तकोऽस्ति । श्रीमोदिना कथितं यत् भाजपेतिदलं कृतसङकल्पो वर्तते यत् दहल्यां जनहितार्थं देहल्याः विकासार्थं जनजीवने च समग्रगुणवत्ता निधानार्थं विकसितभारतस्य च निर्माणार्थं देहल्याः प्रमुखभूमिकां सुनिश्चितुं ये ये संकंल्पाः, दलेन स्वीकृताः तत्र कामपि अल्पतां न करिष्यति। अनेन सहैव प्रधानमन्त्रिणा दिल्ली-विधानसभा निर्वाचने दलस्य विजयार्थं दलीयकार्यकतृभिः कृतप्रयासानाम् अपि अभिशंसनं कृतम्, मोदिना कथितं यत् दलीयकार्यकर्तृभिः कृतं पुरूषार्थं दृष्ट्वा सः गर्वान्वितो वर्तते ये प्रचण्डपुरूषार्थम् कुर्वन्तो दलं विजयं यावत् प्रापितवन्तः, अन्ते प्रधानमन्त्रिणा प्रोक्तं यत् भाजपेति दलं इतोऽपि उत्साहेन कार्यं करिष्यति अपि च दिल्लीवासिनां जनानां सेवां करिष्यतीति ।
आम-आदमी-दलं निर्वाचनपरिणामं ससम्मानपूर्वकं स्वीकरोति- अरविन्दकेजरीवालः

हिमसंस्कृतवार्ताः। आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकः अरविन्द केजरीवालः प्रोक्तवान् यत् तस्य आपेतिदलं देहली-विधानसभा निर्वाचने तस्य विपक्षे समागतं परिणामं ससम्मानं स्वीकरोति, श्री अवरिन्दकेजरीवालोऽस्मिन् अवसरे भाजपेति- दलाय विजयार्थं शुभाशयामपि अददात् अकथयत् च यत् भाजपेतिदलं देहल्यां जनाकाङक्षानुरूपं कार्यं विधाय जनाकाङक्षाः पूरयिष्यति ।
दिल्लीवासिभिः प्रदर्शितं यत् मिथ्यावचनैः दिल्ल्याः जनैः भ्रामकं कर्तुं नैव शक्यते-केन्द्रीय गृहमन्त्री अतिशाहः
केन्द्रीय गृहमन्त्री अतिशाहः कथितवान् यत् दिल्लीवासिभिः प्रदर्शितं यत् मिथ्यावचनैः दिल्ल्याः जनैः भ्रामकं कर्तुं नैव शक्यते। दिल्ली-विधानसभा-परिणामेषु स्व प्रतिक्रियां प्रदन्त्वा श्रीशाहः उक्तवान् यत् दिल्लीवासिनः मलिनयमुनानद्याः प्रदूषित-पेयजलस्य विनष्टमार्गाणां मुक्तमद्यपानस्य आपणानाम् प्रत्युन्तरं स्वीयैः मतदानैः प्रदत्तम् । असौ दिल्ली-विधानसभा निर्वाचने भाजपेतिदलस्य सर्वेभ्यः कार्यकर्तृभ्यः वर्धावनानि अयच्छत्।
अन्याः मिश्रिताः प्रतिक्रियाः
रक्षामन्त्री राजनाथसिंहः अवदत् यत् दिल्ली-विधानसभा निर्वाचने भाजनेतिदलस्य विजयः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भाजपेतिदलस्य नीतिषु च विश्वासस्य विजयोऽयं विद्यते । भाजपेतिदलस्य अध्यक्षः जेपीनड्डाः प्रावोचत् यत् अयं हि ऐतिहासिकः जनादेशेः दिल्ल्याः उज्जवलाय प्रगतिशीलभविष्याय च श्रीमोदिनः कृत लक्ष्येषु जनानां विश्वासं प्रदर्शयतीति।
मिल्किपुरविधानसभायाः निर्वाचनं भारतीयजनता पक्षे, जनैरुक्तम् अयोध्यायाः प्रतिशोधः अस्ति
हिमसंस्कृतवार्ताः। उत्तरप्रदेशस्य मिल्किपुर-विधानसभा क्षेत्रे भाजपेतिदलप्रत्याशी चन्द्रभानु-पासवानः समाजवादी पार्टीतिदलस्य अजीत प्रसादं दशाधिक सप्तशतोत्तरैक षष्टिः मतैः पराजित्य उपनिर्वाचनं विजितवान्। अवधेयं वर्तते यत् मिल्कीपुरस्य विधानसभासनं सपा-दलस्य नेत्रा अवधेशप्रसादेन फैजाबाद तः चतुर्विशत्यधिक द्विसहस्रतमाषस्य लोकसभा-निर्वाचने प्राप्तविजयानन्तरं रिक्तं जातम् । अस्मिन् सन्दर्भे सञ्चारमाध्यमेषु विविधाः प्रतिक्रियाः समक्षम् आगताः। जनैः उक्तं यत् एषः अयोध्यायाः प्रतिशोधः अस्ति। ध्यातव्यं वर्तते यत् गत लोकसभानिर्वाचने अयोध्यातः भारतीयजनतादलस्य पराजयानन्तरं सामाजिकमाध्येषु महतः रोषः आसीत्।
Delhi Election- जनादेशार्थं देहलीवास्तव्यानां जनानां समक्षे नतमस्तकोऽस्मि-प्रधानमन्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
