दिल्लीनिर्वाचनम्- भाजपादलेन अरविन्दकेजरीवालस्य विरूद्धं पूर्वसांसदः परमेशवर्मा नामाङ्कितः
भाजपेति दलेन नवदिल्ली-विधानसभासनात् ‘आप’ दलस्य संयोजकस्य अरविन्दकेजरीवालस्य विरुद्धं दलस्य पूर्वसांसदः परवेश-वर्मा नामाङ्कितः, तत्रैव दलस्य नेता रमेशः बिधुरी कालकाजी-विधानसभासनात् दिल्ल्याः मुख्यमन्त्रिअतिशी इत्यस्याः विरुद्धं नैर्वाचनिक-समराङ्गणे भविष्यति। भाजपेति दलेन दिल्ली-विधानसभा निर्वाचनाय नवविंशति-अभ्यर्थिनां प्रथमसूचिः प्रख्यापिता। दिल्ली-भाजपा-दलस्य पूर्वप्रमुखः सतीश-उपाध्यायः मालवीयनगर-विधानसभासनात्, तथा च आप-दलस्य पूर्वनेता कैलास-गहलोतः, यः सद्यः एव भाजपा-दले सम्मिलितः अस्ति, सः बिजवासन-विधानसभासनात् स्पर्धिष्यतः। गान्धी-नगर-क्षेत्रात् अरविन्दर-सिङ्घ-लवली सहैव राजौरी गार्डन्-विधानसभासनात् भाजपा नेता मञ्जिन्दर सिड्ङ्घसिरसा स्पर्धिष्यतः। विजेन्द्रगुप्ता रोहिणी-विधानसभासनात् नैर्वाचनिक-समराङ्गणे भविष्यति।
दिल्लीनिर्वाचनम्- भाजपादलेन अरविन्दकेजरीवालस्य विरूद्धं पूर्वसांसदः परमेशवर्मा नामाङ्कितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
