By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च
धर्मसंस्कृतिः

देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च

डॉ.अमनदीप शर्मा
Last updated: 2025/01/02 at 9:45 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च

-शिवराजभट्टः

देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु तीर्थस्थलेषु एकमस्ति। अस्य क्षेत्रस्य महत्त्वं वैदिककालतः पुराणेषु व्याख्यातमस्ति। पुराकाले धार्मिकमहत्त्वस्य दृष्ट्या देवघट्टः महत्वपूर्णधार्मिकः स्थलं मन्यते, परन्तु अधुना स्वच्छनद्यौसंगमस्थलं परितः सुन्दराणि अरण्यानि विद्यमानानि सन्ति। जैविकविविधता भिन्न-भिन्न-जनजातयः,भिन्न-भिन्न-कालेषु निर्मिताः सुन्दरमूर्तयः मठानि, मन्दिराणि, विविधाः तपस्विनः, भक्ताः आध्यात्मिकजनाः पर्यटनसंस्कृतिं ऐतिहासिकपुरातत्त्वदृष्ट्या महत्वं ददति। धार्मिकाध्यात्मिकदृष्टयापि स्थलमिदं महत्त्वपूर्णमस्ति। देवघट्टक्षेत्रं न केवलं प्राचीनऋषीणां, तपस्विनाम् आध्यात्मिकभक्तानाम् अपि तु विदुषां शोधकर्तृणां, प्रकृतिप्रेमिणां, संस्कृतिविशेषज्ञानां, पर्यावरणविदानां, तीर्थयात्रिकाणां, पर्यटकानां, आधुनिकविज्ञाने रुचिः विद्यमानानां पर्यटनव्यावसायिकाणां च कृते अपि महत्त्वपूर्णम् अस्ति इति मन्यते। देवघट्टधामः आदिप्रयागः नेपालस्य तनहुमण्डलस्य, नवलपरासीमण्डलस्य, चितवनमण्डलस्य च संगमस्थाने अस्ति। महापुण्यप्रदा अतीव पवित्रगङ्गा गण्डकीनदी दामोदरकुण्डतः उद्भुत्वा पवित्रमुक्तिनाथक्षेत्रात् प्रवहन्नस्मिन् क्षेत्रे आगच्छति। एवं प्रकारेण महापुण्या गङ्गात्रिशुली नदी अपि प्रवित्र पुण्यक्षेत्रं गोसाईकुण्डतः उद्भुत्वा अत्रागच्छति। द्वे गङ्गे अत्र देवघट्टे पुण्यक्षेत्रे संगमत:। विश्वस्य दुर्लभवस्तु शालिग्रामशिला अप्यत्र कालिगण्डकीतटे प्राप्ता भवति इति कारणेन अस्य स्थानस्य महत्त्वं वर्धितम् इति विश्वासः अस्ति। माघे संक्रान्त्यां, हरिशयनीएकादश्यां, हरिबोधनीएकादश्यां, श्रावणमासे बोलवमे, बालाचतुदर्शी, ग्रहणकाले, वैशाखसंक्रान्तौ, इत्यादिषु बहुषु पर्वषु देशदेशतः सनातनधार्मिकभक्तजनाः अस्मिन् पुण्यक्षेत्रे दर्शनार्थं स्नानार्थं, दानपुण्यार्थञ्च आगच्छन्ति। महद्पुण्यपर्वषु चात्र मेलापकाः उत्सवाः अपि भवन्ति। सीतागुहा, चक्रवर्तीमहादेवमन्दिरं, महेशआश्रमः, गलेश्वरधामः, हरिहरआश्रमः, लक्ष्मीनारायणमन्दिरं, बागेश्वरीमन्दिरं, योगीनरहरिनाथस्य गोसंरक्षणकेन्द्रं, गणेशस्थानं, हरिहरमन्दिरं, मौलकाली मन्दिरं इत्यादयः प्रसिद्धाः देवालयाः सन्ति। येन सैंहींतनुं बिभ्रता हिरण्यकशिपुं प्रतिचस्करं तस्य नृसिंहरुपस्य प्रतिमा, यः जानकीमपहारिं हत्वा विभिषणाय लङ्कापुरीं राज्यं ददौ तस्य रामस्य सीतलक्ष्मणाभ्याम् विशालमूर्ति:, भारभंगसुरां पृथिवीं लघुकरिष्यन् कंसादिदुष्टान् उज्जयितुं यः वैकुण्ठादवतरतः कृष्णस्य मूर्ति: इत्यादीनि दर्शनीयस्थानानि सन्ति।
वराहपुराणे, स्कन्दपुराणे देवघट्टं महात्म्यं वर्णनमस्ति। वराहपुराणे देवघाटे देवताः प्रातःकालं स्नानं कर्तुम् आगच्छन्ति, तस्मात् एतत् क्षेत्रं देवस्य घट्टः देवघट्टः इति उपदिष्टम् अस्ति। देशस्य विभिन्नक्षेत्रेभ्यः मुमुक्षुजनाः जीवनस्य उत्तरार्धे देवघाटम् आगत्य कल्पवासं कृत्वा शेषं जीवनं निर्वसन्ति। पुरा पाल्पा राज्यस्य प्रसिद्धः तपस्वी राजा श्रीमत् मणिकुन्दसेनः अन्तकाले स्वराज्यं त्यक्त्वा मुमुक्षु भगवत् प्राप्त्यर्थं तपस्यार्थमत्र आगतः। योगी नरहरीनाथेन बहूनि बर्षाणि पर्यन्तमस्मिन् क्षेत्रे तताप। एवं प्रकारेण गलेश्वरः बाबा इति नाम्नः केनचित् प्रख्यातेन सन्यासिना इच्छानुसारं, दृढनिश्चयानुसारं च देवघट्टे वेदवेदाङ्ग- विद्यालयः, यज्ञशाला, धर्मशाला, मन्दिरं, आश्रममित्यादीनि अपि स्थापितानि सन्ति। पुराकाले सः अस्मिन् स्थाने सदा रामायणं गीता मनुस्मृतिः इत्यादयः पपाठ। २०५०बिक्रमाब्दे तमे वर्षे डॉ. स्वामी रामानन्दगिरी इत्यनेन वैदिक सनातनधर्मसंस्कृतिरक्षणार्थं प्रचाराय च आश्रमस्य स्थापना चकार। एकसहस्रभक्तानां वासार्थं निर्मितः हरिहरसन्यासाश्रमः नाम्ना प्रसिद्धः अस्ति। अयं आश्रमः संस्कृतविश्वविद्यालयात् स्नातकोत्तरस्तरपर्यन्तं संस्कृतविषयान् पाठयितुं अनुज्ञां प्राप्तमस्ति। प्राचीनगुरुकुलस्य स्मरणं जनयन्तः बहवः छात्राः दीक्षिताः सन्ति। देवघाटस्य गलेश्वराश्रमस्य पश्चिमेदिशि कालिगण्डकीतटे महिर्षिवशिष्ठस्य मूर्तिः अस्ति। अयोध्याराज्ञः रामचन्द्रस्य गुरुः महर्षिवशिष्ठः प्राचीनकाले अस्मिन् स्थाने बहुकालपर्यन्तं तताप इति आख्यानमस्ति। अत्र तस्याधोभागेः सीता गुहा अस्ति। रामस्य वनगमनकाले यदा सीता निगूढरुपेण आसीत् रावणः छायारुपिणि सीतां जहार तस्मिन् काले अपि सीता अस्यां गुहायां निगूढा आसीत्। पश्चात् प्रयाणकालेऽपि अस्यां गुहायां सीता रामं त्यक्त्वा पृथिव्यां निलायायञ्चक्रे जनाः इति विश्वास कुर्वन्ति।
ऐतिहासिकं चक्रेश्वरमन्दिरं गलेश्वराश्रमसङ्कुलस्य पूर्वदिशि उच्चस्थाने स्थितम् अस्ति। अत्र विशाला वृत्तशिला स्थापिता अस्ति। पाल्पास्य राज्ञः मुकुन्दसेनः अत्र आगत्य तताप। एकदा स्नानार्थं गच्छन् सः एकां वृत्तशिलाम् दृष्ट्वा अत्र आनयत्, अतः तस्य नाम्ना मुकुन्देश्वरमन्दिरम् बभूव। मन्दिरं परितः चतुर्षु स्थानेषु मन्दिराणां भग्नावशेषाः सन्ति। अत्र सूर्य- भैरव- गणेश- कालिकामन्दिराणि सन्ति। केदारनाथमन्दिरं झूलनसेतोः पूर्वदिशि स्थितम् अस्ति। चक्रवर्ती मन्दिरस्य समीपे स्थिते मन्दिरे शिलायां लक्ष्मीनारायणस्य पादचिह्नं प्राकृतिकं रूपेण अस्ति। एषा शिला अलौकिकं च रहस्यमयी चास्ति, इति स्थानीयजनानां विश्वासः अस्ति। देवघाट- नारायणगढयोः मध्यमार्गे वने ऐतिहासिकं बागेश्वरीमन्दिरम् अस्ति। तत्र नारायणीनद्यां सम्मुखे व्याघ्रद्वयस्य कलात्मकं शिल्पं वर्तते। अन्ये पाषाणशिल्पाः भग्नावशेषरूपेण सन्ति। अस्याः प्रतिमायाः अध्ययनं कुर्वन्तः शोधकर्तारः अस्य प्रतिमायाः पञ्चदशशताब्द्याः परितः इति अवदन्। झूलनासेतुतः पूर्वदिशि भगवतः बद्रीनाथस्य विशालं मन्दिरम् अस्ति।

लेखकः- नेपालदेशवास्तव्यः शिवराजभट्टः
लेखकः- नेपालदेशवास्तव्यः शिवराजभट्टः

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

चालदा महासु महाराज : – हिमाचले प्रवेशे एव शिविकाधारकाः परिवर्तिता:, ३ किलोमीटरक्षेत्रे वितानानि स्थापितानि, ५०,००० जनानां कृते भोजः च अभवत्, अतिविशिष्टायोजनम्

GITA JAYANTI 2025 – कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये साडम्बरं गीताजयन्त्युत्सवः परिपालितः

GITA JAYANTI – गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।

धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः

TAGGED: देवघाट, देवघाट नेपाल, नेपाल के धार्मिक स्थल
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Kalki2898AD2 कल्कि २ इत्यस्मिन् चलच्चित्रे महेश बाबू अभिनयं करिष्यति
Next Article Himachal News : हिमाचलस्य प्रमुखा वार्ता:  3 फरवरीतः विधायकप्राथमिकता सभा:
1 Comment 1 Comment
  • राममणि दुवाडी says:
    January 3, 2025 at 6:44 am

    देवघाटविषये सम्पूर्णं विवरणं सुसमाहितमिदम् लेखं अतीव सुन्दरं, परिपूर्णं तथा पठनीयं च अस्ति ।

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?