पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य निधनम्, अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान्
हिमसंस्कृतवार्ता: – नवदेहली।
पूर्वप्रधानमन्त्रिण: मनमोहनसिंहस्य ९२ वर्षे निधनम् अभवत् । सः गुरुवासरे रात्रौ दिल्ली-अखिलभारतीय-आयुर्विज्ञानसंस्थाने अन्तिम-श्वासं गृहीतवान् । सायंकाले एव सः अखिलभारतीय-आयुर्विज्ञानसंस्थाने प्रवेशं प्राप्तवान् । गम्भीरस्थित्याः कारणात् सः आपत्कालीनकक्षे प्रवेशं प्राप्तवान् । तस्य श्वसनस्य कष्टं भवति स्म इति कथ्यते।
अपरपक्षे कर्णाटकस्य बेलगांवे काङ्ग्रेसकार्यसमित्याः सभा निरस्ती कृता, सर्वे कार्यक्रमाः अपि निरस्ता: अभवन्। कांग्रेसस्य राष्ट्रीयाध्यक्ष: खड़गे, राहुलगान्धी, प्रियंकागान्धी इत्यादयः सर्वे नेतारः दिल्लीं प्रति प्रत्यागच्छन्ति। ततः पूर्वं २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के मनमोहनसिंहस्य एम्स्-संस्थाने प्रवेशः अभवत् ।
दिल्लीकाङ्ग्रेसेन सूचना ट्वीटमाध्यमेन प्रकाशिता
प्रख्यात: अर्थशास्त्रज्ञः देशस्य पूर्वप्रधानमन्त्री च आदरणीयः मनमोहनसिंहजी इत्यस्य निधनं भारतीयराजनीतेः अपूरणीयहानिः अस्ति। ईश्वरः दिवंगतात्मनः शान्तिं, तस्य परिवाराय एतां हानिः सोढुं बलं च दद्यात्। दिल्लीकाङ्ग्रेसपरिवारः आदरणीयमनमोहनजी इत्यस्य स्मृतौ श्रद्धांजलिम् अर्पयति तथा च राष्ट्रनिर्माणे तस्य योगदानस्य कृते आभारं प्रकटयति।
हरियाणाप्रदेशस्य पूर्वमुख्यमन्त्री भूपेन्द्रसिंहहूडा उक्तवान् – विश्वस्य महान् अर्थशास्त्रज्ञः, भारते आर्थिकोन्नयनस्य अग्रणीः, पूर्वप्रधानमन्त्री च यः देशं सम्पूर्णे विश्वे विशिष्टं परिचयं दत्तवान्, तस्य डॉ. मनमोहनसिंहस्य निधनेन दुःखितः स्वकार्यस्य माध्यमेन प्रगतिमार्गे हृदयविदारितः। तस्य निधनेन राजनैतिकजगति अपूरणीयहानिः अभवत्, यस्याः क्षतिपूर्तिः निकटभविष्यत्काले अत्यन्तं कठिना अस्ति । दिवंगतात्मने हार्दिका: श्रद्धांजलि:।