By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: छात्राणां व्यक्तित्वविकासे शिक्षकाणां योगदानं महत्वपूर्णम्- डॉ. सीमाकपूर:।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > छात्राणां व्यक्तित्वविकासे शिक्षकाणां योगदानं महत्वपूर्णम्- डॉ. सीमाकपूर:।
हिमाचलवार्ता

छात्राणां व्यक्तित्वविकासे शिक्षकाणां योगदानं महत्वपूर्णम्- डॉ. सीमाकपूर:।

डॉ मनोज शैल
Last updated: 2024/12/18 at 8:55 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

छात्राणां व्यक्तित्वविकासे शिक्षकाणां योगदानं महत्वपूर्णम्- डॉ. सीमाकपूर:।

बिजन-ढलवाने विद्यालये वार्षिकोत्सव: आचरित:।

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।

वार्षिकोत्सवः राजकीय- उच्चविद्यालये प्राथमिकविद्यालये बिजन-ढलवाने च महता उत्साहेन आचरितः। यस्मिन् मुख्यातिथिरूपेण डॉ. सीमा कपूर, सहायकनिदेशिका रोगपरीक्षणप्रयोगशाला खलियार: मण्डी (डी.आई. लैब) विशिष्टातिथि: कीर्ति ठाकुर च उपस्थिते आस्ताम् समारोहस्य अध्यक्षता विद्यालयस्य मुख्याध्यापिका मोनिकाठाकुर कृतवती। उच्चविद्यालयस्य प्राथमिकविद्यालयस्य च बिजन- ढलवानस्य छात्राः हिन्दी-पहाड़ी-संस्कृतभाषासु विविधा: सांस्कृतिकप्रस्तुतयः प्रस्तूय सर्वान् मोहितवन्तः। मुख्यातिथिः स्वसम्बोधने अवदत् यत् छात्राणां सर्वतोमुखी विकासः गृहस्य संस्कारेषु, विद्यालये आयोजितानां विविधप्रकारस्य‌गतिविधिषु च निर्भर: भवति। छात्राणां कृते सम्यक् दिशां प्रदातुं तेषां व्यक्तित्वस्य विकासे च शिक्षकाणां महत्त्वपूर्णा भूमिका भवति। अद्यत्वे अपि मम आचार्याणां उपदेशाः, पाठिता: पाठा: च पदे पदे मार्गदर्शनं कुर्वन्ति। अतः अस्माकं गुरुभिः दर्शितं सम्यक् मार्गं अनुसृत्य सर्वदा अग्रे गन्तव्यम्। डॉ. सीमा कपूर विद्यालयस्य छात्राणां कृते ट्रैकसूटपरिधानानि, उपाह्नानि च दातुं घोषितवती। अस्य कृते विद्यालयपरिवारः मुख्यातिथिमहोदयाय धन्यवादं दत्तवान्।

अध्यक्षीये भाषणे मुख्याध्यापिका मोनिकाठाकुर इत्यनया उक्तं यत् विविधसंस्कृतीनां अवगमने छात्राणां प्रतिभानां कृते मञ्चं प्रदातुं वार्षिकमहोत्सवानां महत्त्वपूर्णा भूमिका भवति। वार्षिककार्यक्रमस्य आयोजनार्थं विभागात् विशेषवित्तीयसहायता न प्राप्यते। अपि तु शिक्षकाणां मातापितृणां च संयुक्तप्रयत्नेन एव एतत् सम्भवति। मुख्याध्यापिका मोनिकाठाकुर अवदत् यत् अहम् अतीव सौभाग्यशालिनी अस्मि यत् एतावता समर्पितैः शिक्षकैः सह कार्यं कर्तुं अवसरः प्राप्तः ये अस्य विद्यालयस्य कृते सर्वात्मना कार्यं कुर्वन्ति। कार्यक्रमस्य संचालनं डॉ. मनोजशैल:, अंजलिशर्मा च अकुरुताम्।‌

मुख्यातिथिः शैक्षणिकक्रियासु, क्रीडा- सांस्कृतिक- स्पर्धासु च उत्तमं प्रदर्शनं कृतवद्भ्य: छात्रेभ्य: स्मृतिचिह्नानि पदकानि च दत्त्वा सम्मानितवती। दशमीकक्षायां कमलः समीक्षा च योग्यतासूचौ स्थानं प्राप्तवन्तौ, केन्द्रीय- संस्कृत- विश्वविद्यालयेन नवीदिल्लीद्वारा अन्ताराष्ट्रीयगीता- ओलम्पियाड् ऑनलाइनप्रतियोगितायां राज्ये तृतीयस्थानं प्राप्तकर्ता, विद्यालयस्य छात्रः कमलः स्मृतिचिह्नं, श्रीमद्भागद्गीतासंग्रहस्य पुस्तकानि च दत्त्वा सम्मानितः अभवत्।

एते मेधाविन: सम्मानिताः

कक्षा:      छात्र       पुरस्कार:

दशमी      कमल:      प्रथम:

दशमी      समीक्षा     द्वितीय:

दशमी      रिया        तृतीय:

नवमी      एंजल       प्रथम:

नवमी     प्रिया        द्वितीय:

नवमी     वर्षा         तृतीय:

अष्टमी    गौरवः       प्रथमः

अष्टमी    यामिनी     द्वितीय:

अष्टमी    जागृति ‌     तृतीय:

सप्तमी   वंशिका     प्रथमः

सप्तमी    लक्षिता   द्वितीय:

सप्तमी    सुजल:   तृतीय:

षष्ठी        गुञ्जन   प्रथम:

षष्ठी      मुस्कान    द्वितीय:

षष्ठी     ईशान:     तृतीय:

पञ्चमी   रिया      प्रथम:

पञ्चमी   वंशिका    द्वितीयः

चतुर्थी    अंकुश: ‌‌  प्रथम:

तृतीया   अभय:     प्रथमः

तृतीया   गुञ्जन      द्वितीयः

तृतीया    निशान्त:   तृतीय:

द्वितीया   रिहान:      प्रथम:

द्वितीया   कृतिका    द्वितीय:

प्रथमा    लवप्रीत       प्रथम:

प्रथमा     शगुन       द्वितीय:

प्रथमा     एंजल       तृतीय:

एतेन सह सांस्कृतिकक्रियासु क्रीडाप्रतियोगितासु च उत्तमं प्रदर्शनं कृतवन्तः छात्राः तनिशः, गौरवः, अनुभवः (बैडमिण्टनस्पर्धायां), गौरवः, साक्षी, वर्षा, कर्णठाकुरः च (संस्कृत- हिन्दी- प्रतियोगितायाम्), कलाशिल्पविषये प्रिया, ईशानः च ईशान, अनुभवः, भविष्य: यामिनी च चित्रकलाप्रतियोगितायां सम्मानिता: उत्कृष्टछात्रेषु कर्णठाकुर: उत्कृष्टछात्रासु च साक्षी स्मृतिचिह्नै: पदकै: च पुरस्कृता:।

विद्यालयस्य प्रशिक्षितस्नातक: गणितं (TGT Non Medical) पुनीत गुप्ता इत्यनेन उपस्थितानाम् अतिथीनां स्वागतं कृतम्, प्रशिक्षितस्नातक: संस्कृतम् (TGT Sanskrit) डॉ मनोजकुमारशैल: धन्यवादज्ञापनं कृतवान्। अस्मिन्नवसरे शिक्षका: कुलदीप: राणा, दिनेश:, पिंकी देवी, ममता, कुसुम शर्मा, भावना, द्वयो: विद्यालययो: विद्यालयप्रबंधनसमिते: अध्यक्षे सावित्री, ममता च, अन्ये अभिभावका: छात्रा: च उपस्थिता आसन्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: \हिमाचल के आज के समाचार, Chhoti Kashi, chhoti Kashi mandi, cmo himachal Pradesh. HP News, DrManojShail, GHS Bijan Dhalwan, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, Himsanskritvarta, Mandi News, छोटी काशी, छोटी काशी मण्डी, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, पाठशाला बिजन-ढलवान, मण्डी समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPRCA : युवभ्य: शुभवार्ता, जेबीटीसहितम् १,४२३ पदानां नियुक्तये आयुसीमायां द्विवर्षीयापकर्षं दातुं सिद्धता 
Next Article HP Vidhansabha: राष्ट्रिय- ई- विधान (नेवा) अनुप्रयोगे स्थानान्तरिता हिमाचलप्रदेशविधानसभा, कार्यविधि: कुत्रापि द्रष्टुं शक्यते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?