By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Weather : हिमपातस्य कारणेन ८७ मार्गाः ४५७ विद्युत्परावर्तका: च स्थगिताः, १० स्थानेषु तापमानं न्यूनतायाम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Weather : हिमपातस्य कारणेन ८७ मार्गाः ४५७ विद्युत्परावर्तका: च स्थगिताः, १० स्थानेषु तापमानं न्यूनतायाम्
हिमाचलवार्ता

Himachal Weather : हिमपातस्य कारणेन ८७ मार्गाः ४५७ विद्युत्परावर्तका: च स्थगिताः, १० स्थानेषु तापमानं न्यूनतायाम्

डॉ मनोज शैल
Last updated: 2024/12/09 at 9:31 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal Weather : हिमपातस्य कारणेन ८७ मार्गाः ४५७ विद्युत्परावर्तका: च स्थगिताः, १० स्थानेषु तापमानं न्यूनतायाम्

हिमसंस्कृतवार्ता: – शिमला।

 

बहुकालानन्तरं हिमाचलप्रदेशे ऋतो: परिवर्तनं जातम्। रविवासरे शिमलासहितेषु हिमाचलस्य उच्चपर्वतीयक्षेत्रेषु हिमपातः अभवत्, बिलासपुरस्य नयनादेवी, काङ्गड़ा, कुल्लू: इत्यत्र च वर्षा अभवत्। शिमला, कुफरी, सिरमौर:, नौहराधार:, हरिपुरधार:, चम्बाया: किलाड़म्, मण्डी, कामरुनाग:, शैटाधार: शिकारीदेवी च ऋतो: प्रथमः हिमपातः अभवत्। सिरमौर-जनपदस्य छितकुले किन्नरकैलाशे लाहौलस्पीतौ, रोहताङ्गदर्रा, बारालाचा, कोक्सर- सिस्सु- दार्चा- जिस्पा, कुन्जुमदर्रा सहितम् उच्चशिखरेषु अपि हिमपातः अभवत्।

धर्मशालायाः नड्डी-मक्लोडगञ्जयोः वर्षा अभवत्। हिमपातानन्तरं सोमवासरे प्रातःकाले शिमलानगरे लघुसूर्यप्रकाशः आसीत्, परन्तु कठिनताः अद्यापि सन्ति। नवीनतमस्य हिमपातस्य अनन्तरं राज्यस्य एकस्मिन् राष्ट्रियराजमार्गे ८७ मार्गेषु च वाहनानां आवागमनं सोमवासरे प्रातः १०:०० वादनपर्यन्तं स्थगितम् अभवत्। यत्र सोलनं, शिमला, कुल्लू:, मण्डी, किन्नौर:, चम्बा, सिरमौर: एतेषु जनपदेषु ४५७ विद्युत्परावर्तका: प्रभाविताः सन्ति। रविवासरे प्रातःकाले रोहताङ्ग-कोक्सरस्थानयोः अपि लघुहिमपातः अभवत्।

शीततरङ्गः वर्धते, मार्गाः स्खलिताः भवन्ति

उच्चशिमलाया: यातायात: अपि हिमपातस्य कारणेन प्रभावितः भवति। मार्गे हिमसञ्चयात् अधिकं स्खलनं भवति। वाहनानि स्खलन्ति। प्रशासनेन चालकान् सावधानतां स्वीकुर्वन्तु, आवश्यकतायाम् एव यात्रां कर्तुं च परामर्श: दत्तः अस्ति। अपरं तु हिमपातानन्तरम् अधिकांशक्षेत्रेषु शीततरङ्गस्य वृद्धिः अभवत्। विगत २४ होरासु अधिकांशस्थानकेषु न्यूनतमं तापमानं सामान्यतः २-३ डिग्री सेल्सियसपर्यन्तं न्यूनम् आसीत्। अधिकतमं तापमानं अपि सामान्यतः ३-४ डिग्री सेल्सियसपर्यन्तं न्यूनम् आसीत्। १० स्थानेषु न्यूनतमं तापमानं माइनस इति अभिलेखः अस्ति। अग्रिमेषु ४८ होरासु राज्यस्य अनेकेषु भागेषु न्यूनतमं अधिकतमं च तापमानं क्रमेण २-३ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति। तदनन्तरं तापमाने किमपि प्रमुखं परिवर्तनं न भविष्यति।

कोक्सरे रोहताङ्गे च पुनः हिमपातः, मनाली- केलाङ्ग- बससेवा पिहिता

अपरपक्षे रविवासरे प्रातःकाले अपि रोहताङ्गसहितं कोक्सरे लघुहिमपातः अभवत्। ऋतुं दृष्ट्वा अटलकन्दरारोहताङ्गं प्रति पर्यटकानाम् आगमनं तावत्पर्यन्तं स्थगितम् अस्ति। एकदिनपूर्वं उच्चशिखरेषु हिमपातस्य अनन्तरं मनाली- केलाङ्ग- क्षेत्रयोः मध्ये बससेवा बाधिता अस्ति। सम्प्रति न निगमस्य बसयानानि लाहौलं प्रति प्रेष्यन्ते न च लाहौलतः मनाली प्रति बसयानानि आगमिष्यन्ति। सोमवासरे अपि कुल्लु- लाहौलक्षेत्रयोः वातावरणं परिवर्तनशीलम् एव अस्ति।

कारयानं हिमे स्खलितं, गर्ते च पतितम्, एकः मृतः

 

प्रदेशस्य एतेषु क्षेत्रेषु लघुहिमपातः अभवत्। अनेन क्षेत्रस्य कृषकाणाम्, उद्यानपालकानां च आशाः वर्धिताः। अपरपक्षे वर्षाकारणात् शुष्कशीतजन्यरोगाणां निवृत्तिः अपि जनाः प्राप्नुयुः। सोमवासरे मण्डले मार्गदुर्घटनायां एकस्य व्यक्ते: मृत्युः अभवत्। प्रारम्भिकसूचनानुसारं नौहराधारे हिमस्य उपरि स्खलितं वाहनं गर्ते पतितम्। तत्स्थानं प्राप्य पुलिसैः अग्रे कार्यविधि: आरब्धा।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: \हिमाचल के आज के समाचार, cmo himachal, cmo himachal Pradesh, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himachal weather, Himsanskrit news, Himsanskritnews, Himsanskritvarta, HP weather, Meteorological Centre, Meteorological Department:, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, आज के संस्कृत समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, मौसम विज्ञान केन्द्र, मौसम विभाग, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल मौसम, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article BJP Himachal : १८ दिसम्बर दिनाङ्के ज़ोरावर- क्रीडाङ्गणे भाजपाया: प्रदर्शनम्
Next Article HP GOVT: त्रिरुप्यकाणि प्रतिकिलोग्रामं गोमयोर्वरकम् क्रेष्यति सर्वकारः- कृषिमन्त्री चन्द्रकुमार:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?