By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/12/09 at 9:25 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शिमलामण्डलस्य हीरानगरे ६.६७ कोटिरूप्यकाणां व्ययेन निर्मितस्य बौद्धिकदिव्याङ्गबालानां कृते विशेष- आवासीय- विद्यालयस्य उद्घाटनं कृतवान्। मुख्यमन्त्री उक्तवान् यत् राज्ये एतादृशः प्रथमः विशेषः आवासीयः विद्यालयः अस्ति यः ६-१८ वर्षाणाम् आयुवर्गस्य बौद्धिकरूपेण दिव्याङ्गबालानां कृते निर्मितः अस्ति। सः अवदत् यत् बौद्धिकरूपेण दिव्याङ्गबालानां कृते आवासीयसुविधाभिः सह निःशुल्कगुणात्मक- शैक्षिकव्यावसायिकशिक्षणं प्रदातुं राज्ये एषा प्रथमा संस्था अस्ति। विद्यालयखण्डे सङ्गणकप्रयोगशाला, संगीतकक्षः, बहुउद्देश्यकः सभागार:, छात्रावासखण्डे ५० बालकानां कृते छात्रावासः चिकित्साकक्षः, कर्मचारिणां कृते आवासीयसुविधाः च सन्ति।

सुखविन्दरसिंहसुक्खुः उक्तवान् यत् वर्तमानस्य राज्यसर्वकारस्य प्रयत्नेन हिमाचलप्रदेशः देशस्य प्रथमं राज्यं जातम् यत् निर्धनबालानां सम्यक् परिचर्यायाः शिक्षायाः च विधानम् अङ्गीकृतवान्। राज्यसर्वकारेण मुख्यामन्त्री सुख-आश्रययोजना आरब्धा, तान् ‘राज्यस्य बालकाः’ इति स्वीकृतम् अस्ति। एतेषां बालकानां शिक्षाव्ययस्य अतिरिक्तं राज्यसर्वकारः तेषां कोषधनस्य कृते प्रतिमासं चतुर्सहस्ररूप्यकाणि प्रददाति इति सः अवदत्। सः अवदत् यत् मुख्यमन्त्री सुख-आश्रययोजनायाः अन्तर्गतं विगतवर्षद्वये राज्ये ३८.५० कोटिरूप्यकाणां लाभाः प्रदत्ताः। सः अवदत् यत्, “राज्यसर्वकारस्य प्रथमे आय-व्ययके मुख्यमन्त्री सुखाश्रय-योजना आरब्धा। द्वितीये आय-व्ययके राज्यस्य विधवाबालानां २३ सहस्राणां शिक्षायाः सम्पूर्णं व्ययम् राज्यसर्वकारेण वोढुं प्रावधानं कृतम् अस्ति। तृतीये आय-व्ययके बौद्धिकरूपेण दिव्याङ्गबालानां कृते विस्तृतयोजनायाः प्रावधानं भविष्यति। अस्य कृते एतेषां बालकानां शिक्षकैः सह अपि चर्चा भविष्यति, येन तेषां आवश्यकताः योजनायां समाविष्टाः भवेयुः।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारस्य सामाजिकसुरक्षाक्षेत्रे विशेषं ध्यानं वर्तते तथा च एतत् दृष्ट्वा सोलनमण्डलस्य कण्डाघाटे नवसहस्रदिव्याङ्गजनानाम् उच्चशिक्षाप्रदानार्थं उत्कृष्टताकेन्द्रस्य स्थापना क्रियते, यस्य निर्माणं वर्षद्वये सम्पन्नं भविष्यति। सः अवदत् यत् राज्यसर्वकारः दिव्याङ्गजनानाम् शिक्षणाय प्रशिक्षणाय च निरन्तरं प्रयत्नान् कुर्वन् अस्ति येन तेभ्यः समाजे सम्माननीयं स्थानं प्रदातुं शक्यते। राज्यसर्वकारः मण्डीमण्डलस्य सुन्दरनगरे, काङ्गड़ामण्डलस्य लुथाने च ९२.३३ कोटिरूप्यकाणां व्ययेन ४०० आश्रितानाम् आवासीयक्षमतायुक्तानां मुख्यमन्त्री आदर्शग्राम- सुखाश्रयसङ्कुलानां निर्माणं कुर्वन् अस्ति।

You Might Also Like

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Government, HP NEWS, HPCM, hpgovt, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article चारधामयात्रा- उत्तराखण्डे मुख्यमन्त्री पुष्करसिंहधामी चारधामय़ात्रायाः आधिकारिकरूपेण उद्घाटनं कृतवान्
Next Article BJP Himachal : १८ दिसम्बर दिनाङ्के ज़ोरावर- क्रीडाङ्गणे भाजपाया: प्रदर्शनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?