वर्धमाना अस्ति देशस्य परमाणु ऊर्जा क्षमता सांसदस्य सिकंदरस्य प्रश्नस्य उत्तरमददत् मन्त्री जितेन्द्रसिंहः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
केन्द्रीयविज्ञानप्रौद्योगिक्याः राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः अवदत् यत् सम्प्रति देशस्य स्थापिता परमाणुशक्तिक्षमता ८१८० मेगावाट् अस्ति। आगामिषु सप्तवर्षेषु एतस्य वृद्धिः त्रिगुणा भविष्यति। २०३१-३२ वर्षपर्यन्तं परमाणुशक्तिक्षमता ८१८० मेगावाटतः २२४८० मेगावाट् यावत् वर्धते । केन्द्रीयविज्ञान-एवं-प्रौद्योगिकी राज्यमंत्री (स्वतंत्रप्रभार:) डॉ. जितेन्द्रसिंह: सांसदस्य डॉ. सिकंदरकुमारस्य प्रश्नस्य लिखिते उत्तरे संसदि एषा सूचना दत्तवान्। २०७० तमवर्षपर्यन्तं भारतस्य शुद्धशून्य- ऊर्जासंक्रमणं प्रकाशयन् डॉ जितेन्द्रसिंहः अवदत् यत् विभिन्नाध्ययनेन २०४७ तमवर्षपर्यन्तं एकलक्षमेगावाट् राष्ट्रियपरमाणुक्षमतायाः आवश्यकतायाः अनुमानं कृतम् अस्ति।
सांसद डॉ. सिकंदरकुमारः राज्यसभायां प्रधानमन्त्रिणं पृष्टवान् आसीत् यत् २०४७ तमे वर्षे प्रायः १०० गीगावाट् परमाणुक्षमतायाः लक्ष्यं प्राप्तुं सर्वकारेण योजना कृता अस्ति वा इति। हिमाचलप्रदेशे नवीकरणीय ऊर्जायाः एकीकरणे सहायतार्थं परमाणु ऊर्जा इत्यादीनां वैकल्पिकस्रोतसां भण्डारणं सहितं पर्याप्तम् आधारभूतसंरचनां निर्मातुं सर्वकारेण किमपि उपायं कृतम् अस्ति वा तथा च देशे सर्वत्र परमाणुविद्युत्संस्थानानां आधुनिकीकरणाय नवीनताः क्रियन्ते वा इति। अस्मिन् विषये केन्द्रीयराज्यमन्त्री उक्तवान् यत् परमाणुऊर्जा ऊर्जायाः आधारभारस्रोतः अस्ति, जालपुटे एकीकरणाय अतिरिक्तमूलसंरचनायाः आवश्यकता नास्ति।