By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News: सर्वोच्चन्यायालयस्य अधिवक्तृभिः मुख्यन्यायाधीश: प्रार्थित: यत् प्रकरणानाम् श्रवणक्रमं पूरकसूचौ समाविष्टः भवेत्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > National News: सर्वोच्चन्यायालयस्य अधिवक्तृभिः मुख्यन्यायाधीश: प्रार्थित: यत् प्रकरणानाम् श्रवणक्रमं पूरकसूचौ समाविष्टः भवेत्
दिवसविशेषःप्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News: सर्वोच्चन्यायालयस्य अधिवक्तृभिः मुख्यन्यायाधीश: प्रार्थित: यत् प्रकरणानाम् श्रवणक्रमं पूरकसूचौ समाविष्टः भवेत्

डॉ मनोज शैल
Last updated: 2024/12/01 at 1:42 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News :

1. महाराष्ट्रे शपथग्रहणस्य तिथिः घोषिता; मुख्यमंत्री क: भविष्यति इति न ज्ञायते?

2. सम्भलजामामस्जिदे बहु अवैधनिर्माणं जातम्, मूलरूपं परिवर्तितम्, अस्माकम् अपि प्रवेशः नाभवत्- भारतीयपुरातत्वसर्वेक्षणम्।

3. Supreme Court- सर्वोच्चन्यायालयस्य अधिवक्तृभिः मुख्यन्यायाधीश: प्रार्थित: यत् प्रकरणानाम् श्रवणक्रमं पूरकसूचौ समाविष्टः भवेत्।

4. कर्नाटके शिशुमहिलानां मृत्योः विषये केन्द्रीयराज्यमन्त्रिण: शोभाकरांदलाजे: वक्तव्यम्

Maharashtra Mews : महाराष्ट्रे शपथग्रहणस्य तिथिः घोषिता; मुख्यमंत्री क: भविष्यति इति न ज्ञायते?

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

भाजपाद्वारा महाराष्ट्रे मुख्यमन्त्रिण: शपथग्रहणस्य तिथि घोषिता अस्ति। परन्तु महायुति-सङ्घटनस्य मुख्यमन्त्री कः भविष्यति इति अद्यापि संशयः वर्तते। समारोहस्य विषये भाजपायाः कथनमस्ति यत् महाराष्ट्रस्य अग्रिमः मुख्यमन्त्री ५ दिसम्बर दिनाङ्के सायं ५ वादने शपथं गृह्णीयात्। एषः कार्यक्रमः मुम्बईनगरस्य प्रतिष्ठित-आजादप्राङ्गणे भविष्यति।

समारोहस्य विषये सूचनां दत्त्वा भाजपामहाराष्ट्रस्य अध्यक्षः बावनकुले सोशलमीडियापटले एक्स इत्यत्र लिखितवान् यत् महाराष्ट्रस्य अग्रिमः मुख्यमन्त्री ५ दिसम्बर दिनाङ्के सायं ५ वादने आजादप्राङ्गणे शपथं गृह्णीयात्। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी अपि भागं गृह्णीयात्।

*******

सम्भलजामामस्जिदे बहु अवैधनिर्माणं जातम्, मूलरूपं परिवर्तितम्, अस्माकम् अपि प्रवेशः नाभवत्- भारतीयपुरातत्वसर्वेक्षणम्

हिमसंस्कृतवार्ता:- नवदेहली।

भारतीयपुरातत्वसर्वक्षणेन न्यायालये प्रवेशिते शपथपत्रे उक्तं यत् तस्य दलस्य सम्भलजामामस्जिदे प्रवेशः अपि न कारितः। भारतीयपुरातत्वसर्वेक्षणम् (एएसआई) न्यायालयं न्यवेदयत् यत् अस्य मस्जिदस्य संरक्षणस्य, परिपालनस्य च दायित्वं १९२० तमात् वर्षात् अस्माकं समीपे अस्ति। परन्तु चिरकालात् अस्माकं दलं मस्जिदं गन्तुं निवारितम् अस्ति। अतः अस्माकं समीपे तस्य वर्तमानरूपस्य विषये सूचना नास्ति। भारतीयपुरातत्वसर्वेक्षणेन १९९८ तमे वर्षे अस्य मस्जिदस्य निरीक्षणं भ्रमणं च कृतमासीत्। अस्मिन् वर्षे जूनमासे अन्तिमवारं स्थानीयप्रशासनस्य, पुलिसस्य च साहाय्येन भारतीयपुरातत्वसर्वेक्षण- अधिकारिणां दलं मस्जिदं प्रविष्टुं समर्थम् अभवत्।

सम्भलमस्जिदे नियमानां भवति उल्लंघनम्- भारतीयपुरातत्वसर्वेक्षणम्

तस्मिन् समये भारतीयपुरातत्वसर्वेक्षणेन मस्जिदभवने किञ्चित् अतिरिक्तं निर्माणकार्यं लक्षितम् आसीत्। सः न्यायालयाय अवदत् यत् मस्जिदपरिसरस्य प्राचीनभवनानां पुरातत्त्वावशेषसंरक्षणविधानस्य १९५८ तमस्य वर्षस्य प्रावधानानाम् उल्लङ्घनं घोररूपेण क्रियते। परन्तु यदा यदा एएसआई-दलम् भ्रमणं कर्तुं गच्छति स्म तदा तदा स्थानीयजनाः तत् स्थगयन्ति स्म, पुलिसं प्रति अपि उपालम्भं कुर्वन्ति स्म। भारतीयपुरातत्वसर्वेक्षणेन अस्मिन् धरोहरमस्जिदे अवैधनिर्माणस्य उत्तरदायीभ्यः कारणं दर्शयितुं सूचनापत्रम् अपि निर्गतमासीत्।

 

*********

Supreme Court- सर्वोच्चन्यायालयस्य अधिवक्तृभिः मुख्यन्यायाधीश: प्रार्थित: यत् प्रकरणानाम् श्रवणक्रमं पूरकसूचौ समाविष्टः भवेत्

हिमसंस्कृतवार्ता:- नवदेहली।

सर्वोच्चन्यायालयस्य अधिवक्तारः मुख्यन्यायाधीशाय पत्रं लिखितवन्तः। सर्वोच्चन्यायालयस्य अभिलेखस्य अधिवक्ता संघेन उक्तं यत् परदिने सर्वेषु न्यायालयेषु प्रकरणानाम् श्रवणक्रमः सर्वोच्चन्यायालयस्य पूरककारणसूचौ समाविष्टः भवेत्। अधिवक्तारः अवदन् यत् प्रातः १०.३० वादनस्य अनन्तरं सूच्याः प्रकाशनात् सर्वे अधिवक्तार:, लिपिकाः, वादकारिभ्य: च समस्यानां सम्मुखीकरणं कुर्वन्ति।

संघस्य मानदसचिवः अधिवक्ता निखिलजैनः मुख्यन्यायाधीशं प्रति लिखिते पत्रे उक्तवान् यत् बारमध्ये बहवः वृद्धाः सदस्याः सन्ति ये तान्त्रिकदृष्ट्या बहु प्रवीणाः न सन्ति। ते वर्तमानप्रक्रियायाः विषये दुःखिताः सन्ति। बहुवारं ते स्वप्रकरणस्य श्रवणं कर्तुं असमर्थाः भवन्ति। संघस्य पक्षतः अहम् अनुरोधं करोमि यत् पूरककारणसूचौ परदिने सर्वेषु न्यायालयेषु प्रकरणानाम् श्रवणक्रमः समाविष्टः भवेत्। एतेन अधिवक्तारः उत्तमतया योजनां कर्तुं सज्जतां च कर्तुं साहाय्यं करिष्यन्ति।

संघेन उक्तं यत् केचन न्यायालयाः सूची क्रमाङ्कस्य अनुसारम् प्रथमचरणस्य प्रकरणेषु उन्मुक्तिं दातुं नाङ्गीकुर्वन्ति। अनेन अधिवक्तृभ्य: समस्याः भवन्ति। यदा अधिवक्तारः एकदिवसं पूर्वमेव ज्ञास्यन्ति यत् प्रकरणानां श्रवणं केन क्रमेण भविष्यति तदा तेषां दिवसस्य योजनायां समयस्य प्रबन्धने च साहाय्यं करिष्यति। एतेन अधिवक्तारः प्रकरणस्य सम्पूर्णतया सज्जतां कर्तुं शक्नुवन्ति तथा च न्यायालयस्य समयस्य पूर्णतया उपयोगः कर्तुं शक्यते।

 

********

कर्नाटके शिशुमहिलानां मृत्योः विषये केन्द्रीयराज्यमन्त्रिण: शोभाकरांदलाजे: वक्तव्यम्

हिमसंस्कृतवार्ता:।

कर्नाटके विगत ६-७ मासेषु शल्यक्रियाया: अनन्तरं १११ शिशवः प्रायः ३० महिलाः च मृताः। बल्लारीजिल्लाचिकित्सालये चतुर्णां महिलानां, बिम्स्-इत्यत्र एकस्याः महिलायाः च एकसप्ताहे मृत्युः अभवत्। शल्यक्रियाया: अनन्तरं दत्तं ग्लूकोजमिति अनुचितमासीत्। रिंगर- लेक्टेट-ग्लूकोज-इत्यस्य आपूर्तिः एमएमपश्चिमबंगाल- फार्मास्युटिकल इत्यनेन कृता आसीत्। रिंगर- लेक्टेट- ग्लूकोज- इत्यस्य उपयोगः प्रतिबन्धिते कृते अपि अभवत् यस्य परिणामेण महिलानां मृत्युः अभवत्। सिद्धारमैया-सर्वकारः मृत्योः विवरणानि गोपयति। सर्वेषु चिकित्सालयेषु भ्रष्टाचारः, दुर्व्यवस्थापनं च वर्तते। तत्र कर्मचारिणां अभावः अस्ति, सङ्गणकाणि अपि न्यूनानि सन्ति। औषधानि न सन्ति। एमएमपश्चिमबंगाल- फार्मास्युटिकल इति कः अस्ति तथा च तेभ्यः औषधं किमर्थं क्रीतम्? सर्वकारेण सर्वेभ्यः मण्डलेभ्यः दत्तांशं गोपयितुं निर्देशः दत्तः अस्ति। दिनेश गुण्डूरावस्य विरुद्धं कार्यविधि: कर्तव्या। मृतानां कुटुम्बेभ्यःक्षतिपूर्ति: दातव्या:।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं ‘जिगरा’ अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं भविष्यति
Next Article HP NEWS : हिमाचलस्य प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?