सीएसयू भोपालपरिसरे त्रिदिवसीया अनुसन्धानोपकरणकार्यशाला सुसम्पन्ना
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, भोपालम्)
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे शिक्षाशास्त्रविद्याशाखायां कार्तिकशुक्लैकादशीत: कार्तिकशुक्लत्रयोदशीपर्यन्तं त्रिदिवसीया इयमनुसन्धानोपकरणनिर्माणकार्यशाला आसीत्।
आदौ सुरभारतीसमुपासनेन सम्पूर्तिसत्रस्यारम्भ: अभवत्। वैदिकमङ्गलाचरणं राहुलतिवारि, तदन्तरं समुपस्थितान् सर्वान् आचार्यान् छात्राञ्च शिक्षाशास्त्रविद्याशाखाया: ज्येष्ठाचार्या: कार्यक्रमस्य समन्वयका: प्रो. सोमनाथसाहुमहोदयै: निजवाक्पुष्पै: स्वागतं, प्रतिवेदनं च प्रस्तुतवन्त:। सभाया: सभाध्यक्षा: परिसर-सहनिदेशका: प्रो. नीलाभतिवारिमहोदया: उक्तं यत् शैक्षिकानुसंधाने
उपकरणानां प्रयोग: कथं कर्तव्य: इति प्रथमं चरणं भवतीति। अंकुरकुमार:, पुष्करतिवारी, अपूर्वा उपाध्याय कार्यक्रमस्यानुभवकथनम् अकुर्वन्। कार्यशालायामागता: विषयविशेषज्ञा: डॉ. प्रभाकरपाण्डेया: भणितं यत् साम्प्रतं AI मनोमयकोशं लङ्घयित्वा विज्ञानमयकोशं स्पृशति।पञ्चकोशाणां विषये च प्रबोधिता:। प्रो. अशोककच्छवाहा, डॉ. कृष्णकान्ततिवारी, डॉ. गोविन्दसरकार, डॉ. ललितमोहनपन्तोला, डॉ. गोकुलानन्दतिवारी, डॉ. वरुणसौरभपोखरियाल, डॉ. कनकवल्ली प्रभृतया: आचार्या: समुपस्थिता: आसन्। पवनकुमारमहोदया: सर्वेषामतिथीनां साधुवादा: ज्ञापितवन्त:।
सीएसयू भोपालपरिसरे त्रिदिवसीया अनुसन्धानोपकरणकार्यशाला सुसम्पन्ना
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
