Amit Shah: सर्वकारः शीघ्रमेव राष्ट्रिय आतङ्कवादविरोधी नीतिं रणनीतिं च आनयिष्यति
हिमसंस्कृतवार्ताः। केन्द्रीयगृहमन्त्री अमितशाहः घोषितवान् यत् आतङ्कवादस्य आतङ्कवादिनः च पारिस्थितिकीतन्त्रस्य विरुद्धं सर्वकारः शीघ्रमेव राष्ट्रिय आतङ्कवादविरोधी नीतिं रणनीतिं च आनयिष्यति। नवदिल्ल्यां एनआईए इति राष्ट्रियान्वेषणसंस्थाया आयोजितस्य द्विदिवसीय आतङ्कवादरोधीसम्मेलनस्य उद्घाटनं कुर्वन् श्रीशाहः अवदत् यत् विगतेषु दशवर्षेषु प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यभार-ग्रहणानन्तरम् आतङ्कवादविरुद्धं सशक्तं दृष्टिकोणं सर्वकारेण स्वीकृतम्। श्रीशाहः अवदत् यत्, विगतेषु दशवर्षेषु आतङ्कवादविरुद्धं कर्याचरणाय देशे एकः सशक्तः पारिस्थितिकीतन्त्रः विकसितः अस्ति। सः अवदत् यत्, षडाधिक द्विसहस्र वर्षतः त्रयोदशोत्तर द्विसहस्रतम वर्षाणां कालखण्डस्य अपेक्षया चतुर्दशोत्तर द्विसहस्रतः एकविंशत्यधिक- द्विसहस्रतमवर्षपर्यन्तं आतङ्कवादीनां घटनासु सप्ततिः प्रतिशतं न्यूनतागता। केन्द्रीय-गृहमन्त्री अवदत्, आतङ्कवादीनां आक्रमणानि तेषां षडयंत्रं च सीमारहितरूपेण अदृश्यरूपेण च देशस्य विरुद्धम् कार्याणि सम्पादयति। सः यूनां अधिकारिणां कृते विशेषप्रशिक्षणस्य आवश्यकतायाः उपरि बलं दत्तवान्।
Amit Shah: सर्वकारः शीघ्रमेव राष्ट्रिय आतङ्कवादविरोधी नीतिं रणनीतिं च आनयिष्यति
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment