By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu in Hamirpur : भाजपायाम् अन्तर्कलहस्य स्थिति: खण्डषु विभक्तं दलम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu in Hamirpur : भाजपायाम् अन्तर्कलहस्य स्थिति: खण्डषु विभक्तं दलम्
हिमाचलवार्ता

CM Sukhu in Hamirpur : भाजपायाम् अन्तर्कलहस्य स्थिति: खण्डषु विभक्तं दलम्

डॉ मनोज शैल
Last updated: 2024/11/04 at 9:13 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

CM Sukhu in Hamirpur : भाजपायाम् अन्तर्कलहस्य स्थिति: खण्डषु विभक्तं दलम्

हिमसंस्कृतवार्ता: – हमीरपुरम्।

मुख्यमंत्री सुखविंदरसिंहसुक्खु: हमीरपुरजनपदस्य बड़सरविधानसभा क्षेत्रस्य बिझड़ीस्थाने लोकनिर्माणविभागस्य नूतन- उपमण्डलकार्यालयस्य उद्घाटनं कृतवान्। सः अवदत् यत् नूतनस्य उपमण्डलकार्यालयस्य उद्घाटनेन डढवालक्षेत्रे मार्गानाम् अनुरक्षणं सुदृढं भविष्यति येन जनानां कृते सुविधा भविष्यति। अद्यावधि बड़सर उपमण्डलस्य दायित्वं ६०० कि.मी. मार्गाणां व्यवस्थापनस्य आसीत्। सम्प्रति बिझड़ीक्षेत्रे नूतनकार्यालयस्य उद्घाटनात् लोकनिर्माणविभाग: प्रभावीरूपेण कार्यं कर्तुं शक्नोति। मुख्यमन्त्री ३.१९ कोटिरूप्यकाणां व्ययेन निर्मितस्य १२ कि. मी. दीर्घस्य बड़सर-शाहतलाई-मार्गस्य सुदृढीकरणकार्यस्य उद्घाटनम् अपि कृतवान्। सः अवदत् यत् प्रतिवर्षं शाहतलाई, दियोटसिद्ध इत्यादिषु प्रसिद्धेषु धार्मिकस्थानेषु आगच्छन्तः लक्षशः भक्ताः अस्मिन् मार्गेण सुलभयानस्य सुविधां प्राप्नुयुः। एतदतिरिक्तं तेन २४ कि.मी.दीर्घस्य सलौणी- दियोटसिद्धमार्गस्य उन्नयनस्य/ विस्तारस्य अपि आधारशिला स्थापिता। अस्मिन् कार्ये २६.३२ कोटिरूप्यकाणां व्ययः भविष्यति। अयं मार्गः सम्प्रति ३.२ मीटर विस्तृतः अस्ति यस्य विस्तारः ५.५ मीटर यावत् भविष्यति।

सुखविन्दरसिंहसुक्खो: नादौन- शाहतलाई- क्षेत्रयोः प्राप्ते सति जनैः हार्दिकं स्वागतं कृतम्। नादौननगरे पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री अवदत् यत् अद्य शिमलानगरे मन्त्रिमण्डलसदस्यैः सह बजटस्य सज्जतायाः विषये समागमः कृतः। सः बजटस्य निर्माणार्थं सर्वा: अनिवार्य औपचारिकता: समये एव सम्पन्नं कर्तुं निर्देशान् अपि दत्तवान्। सः अवदत् यत् राज्यसर्वकारेण दशसु पञ्च प्रतिज्ञा: पूर्वमेव पूर्णाः कृताः, अन्यासां प्रतिज्ञानां पूर्तये अपि सज्जता क्रियते। मुख्यमन्त्री भाजपानेतृणां राज्यस्य जनान् भ्रामयति इति आरोपं कृतवान्। सः अवदत् यत् शीर्षकेषु स्थातुं विपक्षनेतारः प्रतिदिनं व्यर्थं निराधारं च वक्तव्यं ददति। सः अवदत् यत् भाजपायां अन्तःयुद्धं प्रचलति, दलं च पूर्णतया अनेकखण्डेषु विभक्तम् अस्ति। सः अवदत् यत् राज्यभाजपानेतारः अपि मिथ्या सूचनां दत्त्वा प्रधानमन्त्रिणं नरेन्द्रमोदिनं भ्रामयन्ति। सः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं राज्यं यत् मासे द्विवारं स्वकर्मचारिभ्यः वेतनं दत्तवान् परन्तु एषा सूचना प्रधानमन्त्रिणे न दत्ता। राज्यसर्वकारेण अक्तूबर मासस्य वेतनं चतुर्दिनानि पूर्वं दत्तम् अस्ति। सः अवदत् यत् राज्यसर्वकारेण स्वस्य २२ मासस्य कार्यकाले कर्मचारिभ्यः ११ प्रतिशतं महार्घतावृत्ति: दत्ता। सः अवदत् यत् एकवारमेव वेतनस्य देयतायां विलम्बः अभवत् येन राष्ट्रियमाध्यमानां शीर्षकं जातम्। सुविधास्तरस्य न्यूनतायाः विषये भाजपानेतृणां वक्तव्यस्य अपि मुख्यमन्त्री आलोचनां कृतवान्। सः अवदत् यत् राज्यसर्वकारः जनसामान्यं प्रति प्रदत्तानां सुविधानां उन्नयनार्थं निरन्तरं प्रयत्नान् कुर्वन् अस्ति। स्वप्रतिबद्धतां पुनः उक्त्वा मुख्यमन्त्री अवदत् यत् २०२७ तमवर्षपर्यन्तं हिमाचलं स्वावलम्बनं, २०३२ तमवर्षपर्यन्तं देशस्य समृद्धतमं सुखदं च राज्यं कर्तुं राज्यसर्वकारः निरन्तरं अग्रे गच्छति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article CM Sukhu : मन्त्रिभिः सह सभां कृतवान् मुख्यमंत्री, बजटस्य कार्ययोजनां प्रेषयितुं निर्देशं दत्तवान्
Next Article Shimla News : अवशिष्टांशस्य कृते विरोधः, चौड़ामैदाने व्यावसायिक- शिक्षकाणां विरोध:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?