Paragliding World Cup : बीड़- बिलिंग- उपत्यकायां पैराग्लाइडिंग विश्वचषक: आरब्ध:
हिमसंस्कृतवार्ता: – जोगिन्द्रनगरम्।
बीड़बिलिंग- उपत्यकायां द्वितीयः पैराग्लाइडिंग विश्वचषक: आरब्धः अस्ति। पर्यटनविभागस्य अध्यक्षः आर. एस. बाली मुख्यसंसदीयसचिवः किशोरीलालस्य उपस्थितौ बिलिंगे हवनं कृतवान्। तदनन्तरं प्रतिभागिभ्यः हरितध्वजं प्रदर्श्य स्पर्धायाः आरम्भः अभवत्। ततः पूर्वं बिलिंगं गत्वा काङ्ग्रेसकार्यकर्तार: बिलिंग- पैराग्लाइडिंग- सङ्घस्य अध्यक्षः अनुराग शर्मा च रघुवीरसिंहबालीवर्यस्य स्वागतं कृतवन्तः। शनिवासरे प्रतियोगितायाः आरम्भे ३३ किलोमीटर् यावत् अभ्यासकार्यं प्रतिभागिभ्यः दत्तम्। उड्डयनानन्तरं समग्रम् आकाशं पैराग्लाइडरैः सह रङ्गिणं जातम्। रविवासरात् प्रतिभागिभ्यः कार्याणि प्रदत्तानि भविष्यन्ति। बिलिंग- पैराग्लाइडिंग-संघस्य अध्यक्षः अनुरागशर्मा इत्यनेन उक्तं यत् नवम्बर् ६ तः ८ पर्यन्तं आयोजितस्य बीड़ कार्निवलस्य समये अवरोहणस्थले सांस्कृतिककार्यक्रमस्य आयोजनं भविष्यति। सः अवदत् यत् २६ देशेभ्यः ९४ विमानचालकाः पैराग्लाइडिंग विश्वकपस्पर्धायां भागं गृह्णन्ति। प्रतियोगितायां ३२ भारतीयाः प्रतिभागिनः सन्ति, येषु सप्त महिलाप्रतिभागिनः सन्ति।
सुरक्षायाः एताः व्यवस्थाः
अष्टदिवसीयप्रतियोगितायां प्रतिभागिनां सुरक्षायाः विशेषव्यवस्था कृता अस्ति। सुरक्षायै हेलिकॉप्टरद्वयं, एम्बुलेन्ससहिताः सप्त स्वास्थ्यदलानि, ६-६ उद्धार-पुनर्प्राप्तिदलानि च नियोजितानि सन्ति। एते अटलविहारी- पर्वतारोहणसंस्थानम् मनालीतः प्रशिक्षिता: सन्ति। आवश्यकता भवति चेत् मुख्यमन्त्रिण: हेलिकॉप्टरस्य उपयोगः सुरक्षायाः कृते अपि कर्तुं शक्यते।
बीड़-बिलिंगे अवतरणस्थले ६० लक्षरूप्यकाणां व्ययः भविष्यति – बाली
पैराग्लाइडक्रीडायाः कृते विश्वस्य सर्वाधिकं उपयुक्तं स्थलं बीड़बिलिंग इति स्थलम् अस्ति। मुख्यमन्त्री सुक्खुः इत्यस्य नेतृत्वे पैराग्लाइडिंग इत्यस्य विश्वस्तरीयम् आयोजनं भवति इति देशस्य राज्यस्य च गौरवस्य विषयः अस्ति। पर्यटनविकासनिगमस्य अध्यक्षः पर्यटनविकासमण्डलस्य उपाध्यक्षः च आर. एस. बाली इत्यनेन पैराग्लाइडिंग विश्वकपस्य उद्घाटने एतत् उक्तम्। विश्वकपस्य आयोजनेन विश्वे हिमाचलस्य मान्यता सृज्यते, पर्यटनव्यापारः च वर्धते इति सः अवदत्। सः अवदत् यत् राज्ये साहसिकक्रीडाक्रियाणां अपारसंभावना वर्तते। एतेषु आयोजनेषु सर्वकारः सर्वं सम्भवं समर्थनं प्रदातुं आयोजकान् प्रोत्साहयति। बाली इत्यनेन उक्तं यत् २०१५ तमस्य वर्षस्य अनन्तरं पुनः काङ्ग्रेसस्य कार्यकाले बीड़ बिलिंग् इत्यत्र पैराग्लाइडिंग स्पर्धा भवति। बीड़ बिलिंग- उपत्यकायाः देवीदेवतानां भूमित्वात् अत्र सर्वेषु प्रतिभागिषु देवानाम् विशेषाशीर्वादाः अवशिष्टाः सन्ति। सः अवदत् यत् बीड-क्षेत्रस्य अवरोहणस्थलस्य कृते ६० लक्षरूप्यकाणि मुक्तानि सन्ति, अन्यसुविधानां कृते पर्यटनविभागेन ७ लक्षरूप्यकाणि विमोचितानि सन्ति। प्रतियोगितायाः सफलसञ्चालनाय सः ३५ लक्षरूप्यकाणां प्रदानस्य घोषणांकृतवान्।