By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः-प्रधानमन्त्रिणः ब्रिक्सयात्रा, राष्ट्रीयजलपुरस्कारं, भारतचीनसम्बन्धः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः-प्रधानमन्त्रिणः ब्रिक्सयात्रा, राष्ट्रीयजलपुरस्कारं, भारतचीनसम्बन्धः
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः-प्रधानमन्त्रिणः ब्रिक्सयात्रा, राष्ट्रीयजलपुरस्कारं, भारतचीनसम्बन्धः

डॉ.अमनदीप शर्मा
Last updated: 2024/10/22 at 9:17 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

राष्ट्रीयवार्ताः- राष्ट्रपतिना ब्लादिमीर पुतिन इत्यनेन सह द्विपक्षीयोपवेशनं कृतवान् प्रधानमन्त्री नरेन्द्र मोदी
प्रधानमन्त्री नरेन्द्र मोदी षोडशतमे ब्रिक्सेति शिखर सम्मेलने इतर-कजान इति क्षेत्रे रूसदेशस्य राष्ट्रपतिना ब्लादिमीर पुतिन इत्यनेन सह द्विपक्षीयोपवेशनं कृतवान्। उपवेशनेऽस्मिन् मोदिना प्रोक्तं यत् गतेषु त्रिषु मासेषु रूसदेशं प्रति कृता तस्य यात्रा उभयोर्देशयोः मध्ये घनिष्ठ सम्बन्धेन सह गह्वरीं मित्रतामपि दर्शयति। तेनोक्तं यत् कजानक्षेत्रे नूतनस्य वाणिज्य दूतावासस्य उ‌द्घाटनेन उभयोः देशयोर्मध्ये सम्बन्धाः इतोऽपि सुदृढाः भविष्यन्ति ।
रूस-यूक्रेन-विवादे श्रीमोदिना भणितं यत् रूसयूक्रेनयोर्मध्ये चलायमाने-विवादे भारतदेशः निरन्तरतया संपर्क आस्तीति। तने भारतस्य दृष्टिकोणं पुनाग्रेडितं यत् रूस-यूक्रेनयोर्विवादः शान्तिपूर्ण-रीत्या शमितः स्यादिति। शिखर सम्मेलनस्य अस्य मुख्य विषयः अस्ति-न्यायपूर्ण-वैश्विक विकासेन सह सुरक्षायै बहुपक्षवादस्य सशक्तिकरण-मिति। प्रधानमन्त्रिणा अस्याः यात्रायाः शुभारम्भात् प्राक् प्रोक्तं मासीत् यत् भारतदेशः ब्रिक्स देशेषु आभ्यान्तरिकी घनिष्ठता, सहयोगश्च सुदृढा भवेदिति विचारयति। तेनोक्तं यत् ब्रिक्स-समूहः विकास लक्ष्यम्, बहुपक्षवादः, जलवायुपरिवर्तनम्, आर्थिकसहयोगः, लोचपूर्णायाः आपूर्तिश्रृंखलायाः विनिर्माणादिना सह सांस्कृतिक-बिन्दुभिः समं जनेषु पारस्परिक सम्पर्कान् च अभिवर्धनाय महत्वपूर्णमञ्चत्वेन प्रथितोऽस्ति ।

सर्वोत्तम-राज्यस्य-वर्गे ओडिशा-राज्यं प्रथमं राष्ट्रिय-जल-पुरस्कारं प्राप्तवान्
हिमसंस्कृतवार्ताः। राष्ट्रपतिः द्रौपदीमुर्मुः नवदिल्ल्यांं त्रयोविंशत्यधिक-द्विसहस्रतमवर्षस्य पञ्चमं राष्ट्रिय-जल-पुरस्कारं दत्तवती। केन्द्रीयजलशक्तिमन्त्रालयेन सर्वश्रेष्ठराज्यं, सर्वश्रेष्ठ- जनपदं, सर्वश्रेष्ठग्राम-पञ्चायत्, सर्वश्रेष्ठ-नगरीय-स्थानीय-संस्था, सर्वश्रेष्ठ जल- उपयोक्तृ-संघः, सर्वश्रेष्ठ-नागरिक समाजं च समेत्य नव-श्रेणिषु अष्टात्रिंशत् विजेतारः घोषिताः सन्ति। सर्वोत्तम-राज्यस्य-वर्गे ओडिशा-राज्यं प्रथम पुरस्कारम्, उत्तरप्रदेश- राज्यं द्वितीय-स्थानं, गुजरात-पुदुचेरी-राज्ये संयुक्तरूपेण तृतीस्थानं च प्राप्तवन्तः । प्रत्येकं पुरस्कारविजेत्रे प्रशंसापत्रं, परितोषिकं तथा च कतिपयेषु वर्गेषु धनपुरस्कारान् प्राप्तवन्तः। अस्मिन् अवसरे राष्ट्रपति मुर्मुः अवदत् यत् जलजीवन- अभियानस्य अन्तर्गतं देशे अष्टसप्ततिः प्रतिशताधिक ग्रामीणगृहेभ्यः नलकूपजलसंयोजनस्य व्यवस्था अभवत्। इतः पूर्वं केवलं सप्तदश प्रतिशत-ग्रामीण गृहेषु एव सुरक्षितजलस्य उपलब्धिः आसीत्।

भारतेन फिलिस्तिनदेशाय प्रेषिता सामग्री
भारतदेशेन नवदिल्लीतः युद्धग्रस्ताय फिलिस्तिनदेशाय त्रिंशत् टन-परिमितस्य मानवीय-सहायता-सामग्री इत्यस्य प्रथम पुटकं सम्प्रेषितम्।

भारतस्य विकासकथा नैरन्तर्येण वरीवर्धमानाऽस्ति-भारतीय रिजर्वबैंक
भारतीय रिजर्व बैंक इत्यस्य प्रशासकेन शक्तिकान्त-दासेन उक्तं यत् भारतस्य विकासकथा नैरन्तर्येण वरीवर्धमानाऽस्ति, यतो हि अस्याः मूलचालकौ उपभोक्ता निवेशापेक्षा च गतिमन्तौ स्तः। आर.बी.आई. इत्यस्य मासिक-सन्देशे श्रीदासेन उक्तम् यत् भारते विंशति-चतुर्विंशति-पञ्चविंशति इति वित्तवर्षाय सकल- गृहगतोत्पादने सप्त-दशमलव-द्वि-प्रतिशतात्मक अंकस्य वृद्धिः अग्रेऽपि स्थास्यतीति सम्भावना वर्तते।

भारत-चीनयोर्मध्ये विश्वास्य प्रतिस्थानम् उभयोः देशयोः मध्ये सकारात्मक-सुदृढ- सम्बन्धेभ्यः आवश्यकमस्तीति-सेनाप्रमुखः
सेनाप्रमुखः जनरल-उपेन्द्र-द्विवेदी इत्यनेन विषयेऽस्मिन् सबलं प्रतिपादिनं यत् भारत-चीनयोर्मध्ये विश्वास्य प्रतिस्थानम् उभयोः देशयोः मध्ये सकारात्मक-सुदृढ- सम्बन्धेभ्यः आवश्यकमस्तीति। जनरलद्विवेदिना नवदिल्ल्यां एकस्मिन् कार्यक्रमे उक्तं यत् पूर्वीलद्दाखक्षेत्रस्य वास्तविकनियन्त्रण रेखायां पुनश्चक्रीय- निरीक्षणव्यवस्थायाः सम्बन्धे भारतचीनयोर्मध्ये सद्यः एव जातायां सन्धौ टिप्पणीं कुर्वता प्रोक्तं यत् अस्य प्राथमिकोद्देश्यः अस्ति यत् विंशत्यधिकः द्विसहस्रतमवर्षस्य स्थितिं प्रति सेनयोः प्रत्यावर्तनमिति। तेनोक्तं यत् उभावपि पक्षौ विघटनानन्तरं चरणवद्धरीत्या अग्रेगमनाय पारस्परिकतया आश्वस्तौ सहमतौ च भवेतामिति आवश्यकमस्ति । ध्यातव्यमस्ति यत् भारत-चीनदेशौ पूर्वीय-लद्दाख क्षेत्रे वास्तविक नियन्त्रण-रेखायां रक्षा व्यवस्थाम् आधृत्य सहमतौ जातौ। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेशसचिवः विक्रम- मिस्रीइत्येषः सूचितवान् यत् अनया सहमत्या द्वाविंशत्यधिक हिसहस्रतमवर्षे जातां चिन्तां न्यूनीकर्तुं तस्याःच समाधानम् अन्वेष्टुं साहाय्यं मेलिष्यति। असौ अग्रे अवोचत् यत् उभयोः पक्षयोः मध्ये विस्तारपरायाः चर्चायाः अनन्तरं प्रहरीव्यवस्थायां सहमतिः जाता।

भारतदेशः द्वितीयश्वेतक्रांतिं कर्तुं सज्जः अस्ति-केन्द्रीय गृहसहकारितामन्त्री अमित शाहः
केन्द्रीय गृहसहकारितामन्त्री अमित शाहः अद्य अवदत् यत् भारतदेशः द्वितीयश्वेतक्रांतिं कर्तुं सज्जः अस्ति। यस्य उद्देश्यं देशस्य सर्वेषां अष्ट कोटिः दुग्धोत्पादकानां भविष्यित्काले सहकारी-मूलसंरचनया सह संयोजनमस्ति। आनन्दनगरे राष्ट्रिय दुग्धविकासमण्डलस्य हीरक जयन्ती-समारोहं सम्बोधयन् श्रीशाहः अवदत् यत् वर्तमान-काले दुग्ध उत्पादक-कृषकेषु केवलं एक-दशमलव- पञ्च-कोटि एव कृषकाः सहकारीभिः सह सम्बद्धाः सन्ति, तेषु बहुसंख्यकाः अद्यापि शोषणेन पीडिताः सन्तीति।

सागरीय-झञ्झावातः दाना इत्याख्यः उग्रतां भजते
बङ्गोपसागरीय-क्षेत्रे समागतः सागरीय-झञ्झावातः दाना इत्याख्यः उग्रतां भजते। अस्मिन् गुरुशुक्रवासरयोः रात्रौ ओडिशातटं प्रति प्रापणाय झञ्झावातोऽयं अग्रसरः अस्ति। भारतीय-ऋतु-विज्ञान-विभागेन अस्य सद्यः आगम्यमानस्य संकटस्य मार्गसूचना संदत्ताऽस्ति । तदनुसारं बालासोर अथ भद्रक उतो वा केन्द्रपाडा तटैः सह अस्य सम्पर्कस्य संभावना अस्ति।
झारखण्डे द्वितीचरणस्य विधानसभानिर्वाचनस्य अधिसूचना प्रकाशिता
झारखण्डे द्वितीचरणस्य विधानसभानिर्वाचनस्य अधिसूचना प्रकाशिता अस्ति। अस्माकं वार्ताहरः अवदत् यत् अस्मिन् चरणे नवम्बरमासस्य विंशति दिनांके आहत्य अष्टात्रिंशत् आसनानां कृते मतदानं भविष्यति। नामाङ्कनपत्राणां पूरणस्य अन्तिमातिथिः अक्टोबरमासस्य एकोनत्रिंशत दिनांकः अस्ति।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article बगलामुखी रज्जुमार्गस्य (रोपवे) उद्घाटनं करिष्यति मुख्यमन्त्री
Next Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?