By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः
राष्ट्रीयवार्ताःसंस्कृतगतिविधयः

Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः

डॉ.अमनदीप शर्मा
Last updated: 2024/10/19 at 9:44 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः
हिमसंस्कृतवार्ताः कांगड़ा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य बलाहरपरिसरे शनिवासरे ठाकुररामसिंहइतिहासशोधसंस्थानं नेरी (हमीरपुरम्) इत्यस्य सहयोगेन भारतीय-ज्ञान-परम्परायां हिमाचलस्य योगदानम् इत्यस्मिन् विषये द्विदिवसीयसंगोष्ठ्याः शुभारम्भः वैदिकमंगलाचरणेन अभवत्। कार्यक्रमस्य संयोजकेन डॉ.मुकेशशर्मणा सर्वेषां समागतानां स्वागतवचोभिः प्रस्ताविकं प्रस्तुतम्। कार्यक्रमे अन्तर्जालमाध्यमेन प्रो.पी.एन शास्त्री वर्यः सारस्वतातिथित्वेन, विशिष्टातिथिः प्रो.बिहारीलालः, सम्मानितः अतिथिः प्रो.पी.वी.बी सुब्रह्मण्यम् च उपस्थिताः अभवन्।

विशिष्टातिथिना डॉ.किस्मतकुमारेण स्ववक्तव्ये कथितं यत् वर्तमानकाले आईकेएस इत्यस्य स्थाने बीकेएस इत्यस्य शब्दस्य प्रयोगः कर्तव्यः यतोहि इण्डिया इति शब्दः कदापि भारतस्य पर्यायः न स्थास्यति। तेनोक्तं यत् ज्ञानपरम्परायाः सन्दर्भे हिमाचलस्य पारम्परिकोत्सवाः अन्ताराष्ट्रीयाः मेलापकाः समस्तविश्वं विश्ववन्धुतायाः सन्देशं प्रददति। कुल्लू दशहरामेलापकस्य प्रसंगं श्रावयन् सः उक्तवान् यत् मेलापके श्रीरघुनाथस्य यः रथः निर्मास्यते तस्य निर्माणं समाजस्य तथाकथिताः निम्नश्रेण्याः जना एव कुर्वन्ति, किञ्च देवस्य रथयात्रातः पूर्वं रथस्य निर्माणकर्ता सर्वादौ रथे उपविश्य प्राचीनां परम्परां निर्वहति। तेनोक्तं यत् हिमाचलस्य परम्परायां शुभोत्सवेषु वाद्यकाराः प्रायः ब्राह्णेतर जातिभ्यः सम्बधाः भवन्ति, ये प्रायः सर्वदा अग्रिमपंक्तौ चलन्ति, अतः हिमाचलस्य संस्कृतौ सामाजिकसमरसतायाः बीजानि प्राचीनकालादेव सन्ति। कार्यक्रमस्य मुख्यातिथिना केन्द्रीयविश्वविद्यालयस्य सत्पसिन्धुपरिसरस्य निदेशकेन प्रो.भागसिंहेन भारतीयज्ञानपरम्परां सम्वर्धयितुं हिमाचलस्य योगदानस्य प्रशंसा कृता, तेनोक्तं यत् हिमाचले अनुसन्धानस्य परम्परायाः अस्माभिः निर्वहणं करणीयं यतोहि अस्माकं सांस्कृतिकेषु धार्मिकेषु चोत्सवेषु अऩेकानि उदाहरणानि सन्ति यत्र ज्ञानपरम्परायाः परमोत्कर्षस्य दृश्यं दृश्यते। स्वकीये अध्यक्षीये भाषणे डॉ.श्यामबाबूवर्येण उक्तं यत् कांगड़ाजनपदे अपि भारतीयज्ञानपरम्परायाः अनेकानि बीजानि दृष्टिगोचराणि भवन्ति, एकस्मिन् प्रसंगे तेनोक्तं यत् ध्वनिसम्प्रदायस्य आचार्यस्य अभिनवगुप्तस्य गुरोः शम्भुनाथस्य सम्बन्धः वर्तमानहिमाचलस्य कांगड़ाजनपदेन सह अस्ति, यः महान शैवतन्त्रस्य ज्ञाता आसीत्। डॉ.दीपकुमारेण सर्वेषां धन्यवादं कृतम्।

विश्वविद्यालयस्य छात्रैः सांस्कृतिककार्यक्रमैः हिमाचलस्य लोकसंस्कतेः परिचयं कारितम्। संगोष्ठ्याः द्वितीये सत्रे अन्तर्जालमाध्यमेन साक्षात्माध्यमेन च शोधपत्रवाचनं अभवत्, यस्मिन् ठाकुररामसिंहइतिहासशोधसंस्थानस्य निदेशकेन डॉ.चेतरामगर्गेण अध्यक्षता, हिमाचलकलाभाषाकादम्याः पूर्वसचिवेन डॉ.कर्णसिहेन सह अध्यक्षस्य भूमिका निर्वाहिता। हिमाचलप्रदेशविश्वविद्यालयः क्षेत्रीयाध्ययनकेन्द्रधर्मशाला इत्यस्य आचार्यः राजकुमारः मुख्यवक्ता रुपेण स्वविषयमुपस्थापितवान्। शोधपत्रवाचकेषु प्रायः 70 शोधपत्रवाचकाः शोधपत्रवाचनं कृतवन्तः। शोधपत्रवाचकेषु मुख्यतया राजेन्द्रकुमारः, डॉ.मनोजकुमारः, डॉ.विरेन्द्रकुमारः, डॉ.अमनदीपशर्मा, डॉ.विवेकशर्मा, डॉ.अमितशर्मा, डॉ.रामरत्नः, डॉ.मनोजशैलः इत्यादयः प्रवाचकाः आसन्। ध्यातव्यमस्ति यत् २० अक्टोबर् दिनाङ्के आयोजनस्य द्वितीयम् सत्रम् भविष्यति । अस्मिन् द्वितीयसत्रे अधिकैः विद्वांसैः व्याख्यानानि, शोधपत्राणि च प्रस्तुतानि भविष्यन्ति, यत्र गहनाचर्चा भविष्यति।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः
Next Article भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?