By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः
संस्कृतगतिविधयः

संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः

डॉ.अमनदीप शर्मा
Last updated: 2024/10/18 at 10:34 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः

संस्कृतभारतीहिमाचलप्रदेशन्यासद्वारा श्रीसुन्दरनारायणगुरुकुलम् अम्बेहडा, ऊना इत्यत्र अक्टूबरमासस्य अष्टादशनवदशदिनाङ्कयोः समायोज्यमानायाः राज्यस्तरीयशलाकापरीक्षायाः अद्य 18.10.2024 तमे दिनाङ्के सायङ्काले 7:00 वादने उद्घाटनसमारोहः समायोजितः । समुपस्थितैः अतिथिभिः कार्यक्रमस्य शुभारम्भः दीपप्रज्ज्वालनेन कृतः। शास्त्रसंरक्षणाय शास्त्रसंवर्धनाय च संस्कृतभारतीहिमाचलप्रदेशन्यासद्वारा अम्बेहडास्थिते श्रीसुन्दरनारायणगुरुकुले द्विदिवसीयायाः शलाकापरीक्षायाः समायोजनं क्रियमाणम् अस्ति । गतवर्षारभ्य व्याकरण-ज्योतिष-गीता-अमरकोषादीन् शास्त्रीयविषयान् आधारीकृत्य राज्यस्तरीया शलाकापरीक्षा आयोज्यमाना अस्ति । अस्मिन् वर्षे लघुसिद्धान्तकौमुदी-अमरकोष-गीता-ज्योतिष-अष्टाध्यायीत्यादिषु पञ्चसु विषयेषु एषा शलाकापरीक्षा भूयमाना अस्ति । यस्यां सम्पूर्णस्य हिमाचलप्रदेशस्य प्रायेण सर्वजनपदानां विविधशिक्षणसंस्थानानां शताधिकाः छात्राः भागं गृह्णन्तः सन्ति ।

शलाकापरीक्षायाः उद्घाटनसमारोहे अद्य मुख्यातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरबलाहरस्य निदेशिका प्रो.सत्यमकुमारीवर्या, अध्यक्षरूपेण श्रीसुन्दरनारायणगुरुकुलस्य संस्थापकः प्रसिद्धः कथावाचकः आचार्यः शिवकुमारवर्यः, मुख्यवक्तृरूपेण संस्कृतभारत्याः उत्तरक्षेत्रसंघटनमन्त्री श्रीमान् नरेन्द्रवर्यः सारस्वतातिथिरूपेण च प्रसिद्धः उद्योगपतिः श्रीमान् योगेशवर्यः इत्येते उपस्थिताः आसन् ।
उद्घाटनसत्रे शलाकापरीक्षायाः प्रान्तसंयोजकः आचार्यः डॉ.जयकृष्णवर्यः सर्वेषां स्वागतं व्याहरन् परीक्षायाः अस्याः प्रास्ताविकं प्रास्तौत् । तदनु मुख्यवक्तृरूपेण समुपस्थितः श्रीमान् नरेन्द्रमहोदयः स्ववचोभिः समेषां मार्गदर्शनम् अकरोत् । एतदनु सारस्वतातिथिरूपेण समुपस्थितेन प्रसिद्धेन उद्योगपतिना श्रीमता योगेशवर्येण अवसरे अस्मिन् विशिष्टकार्याय शुभकामनाः प्रकटीकृताः । मुख्यातिथिरूपेण समुपस्थिता प्रो.सत्यमकुमारीवर्या सर्वेषाम् अभिनन्दनं कुर्वन् शास्त्रपरम्परायाः महत्त्वं प्रत्यपादयत् ।
गुरुकुलस्यास्य संस्थापकः आचार्यः कार्यक्रमाध्यक्षः प्रसिद्धः कथावाचकः आचार्यः शिवकुमारवर्यः कार्यक्रमस्यास्य आयोजनं गुरुकुले जायमानम् अस्ति इत्यर्थं प्रसन्नतां प्रकटितवान् उक्तवान् च आगामिनि काले मुहुर्मुहुः एवंभूतानां कार्यक्रमाणां समायोजनं स्थाने एतस्मिन् भवेत् इत्याग्रहपूर्वकं समेषां पुरतः आह्वानं कृतवान् ।
अवसरे अस्मिन् प्रान्तस्य, विभागानां, विविधजनपदानां, खण्डानां च अनेके दायित्ववन्तः कार्यकर्तारः समाजस्य स्थानीयाः ज्येष्ठाः गणमान्याः संस्कृतप्रेमिणः च उपस्थिताः आसन् ।
द्विदिवसीयशलाकापरीक्षायां निर्णायकरूपेण हिमाचलम् अतिरिच्य भारतस्य विविधेभ्यः उत्तराखण्ड-पञ्जाबादिभ्यः विविधशास्त्रविद्वांसाः उपस्थिताः अभूवन् ।
शलाकापरीक्षायाः सहसंयोजिका डॉ.के.मनोज्ञावर्या कार्यक्रमस्य सञ्चालनम् अकरोत् ।
शलाकापरीक्षासमितिसदस्यः आचार्यः डॉ.यज्ञदत्तशर्ममहोदयः समेषाम् उपस्थितानां धन्यवादम् अकरोत् । शान्तिमन्त्रेण कार्यक्रमः सुसम्पन्नः ।

वार्ताप्रेषकः
प्रान्तप्रचारप्रमुखः
दूरभाषः 9619013708

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: संस्कृतभारती
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article KCC BANK: काङ्गड़ा- केन्द्रीय- सहकारी- वित्तकोषस्य १३०० कर्मचारिभ्यः अपि चतुर्प्रतिशतं महार्घतावृत्ति: प्रदास्यते
Next Article Cm Sukhu in International Kullu Dussehra Festival : : देवतानां वाद्ययन्त्रवादकानां उपहारराशौ वृद्धि:‌
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?