By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः
राष्ट्रीयवार्ताःसंस्कृतगतिविधयः

भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः

डॉ.अमनदीप शर्मा
Last updated: 2024/10/19 at 9:59 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः

हिमसंस्कृतवार्ताः, भोपालम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः ।
समापनसमारोहस्य प्रारम्भे एव भोपालपरिसरस्य सह-निदेशकाः प्रो. नीलाभतिवारी-महोदयाः कार्यक्रमेऽस्मिन् उपस्थितानामतिथीनां वाक्कुसुमैः स्वागतं कुर्वाणाः उक्तवन्तः यत् आभिः स्पर्धाभिः छात्राणां पञ्चविधविकासः भवति । अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धायाः संयोजकाः प्रो.भारतभूषणमिश्रा-महोदयाः दिनत्रयात्मककार्यक्रमस्य प्रतिवेदनं प्रास्तुवन् ।

कार्यक्रमस्यास्य मुख्यातिथयः प्रो. अभिराजराजेन्द्रमिश्र-महोदयाः, पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी उक्तवन्तः यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि उपनिषदः पुराणानि प्रत्यक्षप्रमाणानि सन्ति ।
कार्यक्रमस्य सारस्वतातिथयः प्रो. शिशिरकुमारपाण्डेय-महोदयाः, कुलपतयः, जगद्गुरुरामभद्राचार्यदिव्याङ्गराज्यविश्वविद्यालयः, चित्रकूटम् उक्तवन्तः यत् अध्यनेन सह पाठ्यसहगामिक्रियाः अत्यन्तानिवार्याः सन्ति अनया शारीरिकं मानसिकं सामञ्जस्यं संस्थापयितुं शक्यते । स्वस्थमनसः एव सर्वाणि कार्याणि सम्यक् रूपेण सम्पादयितुं शक्यते ।
कार्यक्रमस्य विशिष्टातिथयः प्रो. रा. गा. मुरलीकृष्ण-महोदयाः, कुलसचिवाः, केन्द्रीयसंस्कृतविश्वविद्यालयः, दिल्ली उक्तवन्तः यत् हर्षस्य विषयोऽयं यत् संस्कृतच्छात्राः शास्त्राध्ययनेन सह विभिन्नगतिविधिषु भागं स्वीकृत्य सर्वश्रेष्ठं प्रदर्शनं कुर्वन्ति । अधुना इयं स्पर्धा चतुर्षु वलयेषु सम्पन्ना भवति । अतः बहवः स्पर्धालवः भागं स्वीकुर्वन्ति । कार्यक्रमेऽस्मिन् सम्मानितातिथित्वेन डॉ.सत्यजीतपाण्डेय-महोदयाः समुपस्थिताः आसन् ।
समापनसमारोहकार्यक्रमस्य अध्यक्षाः केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य निदेशकाः प्रो.रमाकान्तपाण्डेय-महोदयाः सर्वप्रथमम् अध्यक्षीयोद्वोधनेन उपस्थितेभ्यः सर्वेभ्यः प्रतिभागिभ्यः मार्गदर्शकेभ्यः आयोजनसमितिसदस्येभ्यः परिसरप्राध्यापकेभ्यश्च अभिनन्दनं कृतवन्तः । तथा चोक्तवन्तः यत् शास्त्रे यत् निहितं ज्ञानमस्ति तदस्माकं व्यवहारेऽपि आगच्छेत् तदैवास्माकं व्यक्तित्वं विकसति । आचार्यपाण्ड़ेयमहोदयाः विश्वविद्यालयस्य माननीयेभ्यः कुलपतिभ्यः प्रो. श्रीनिवासवरखेडी-महोदयेभ्यः अपि कृतज्ञतां समर्पयन् येषां सत्प्रेरणया एव विश्वविद्यालयपरिसरेषु एतादृशाः कार्यक्रमाः सम्पन्नाः भवन्ति। अवसरेऽस्मिन् भोपालपरिसरेण प्रकाशिता शोधपत्रिका लोकायार्पिता । मञ्चस्थैः अतिथिभिः मार्गदर्शकाः सम्मानिताः। पुरस्कारवितरणस्य घोषणा प्रो.धर्मेन्द्रकुमारसिंहदेव-महोदयेन कृता । समापनसत्रेऽस्मिन् धन्यवादज्ञापनं डॉ.मोहिनी-अरोड़ा-महोदया कृतवती तथा चास्य सत्रस्य सञ्चालनं प्रो.प्रदीपकुमारपाण्डेय-महोदयेन कृतम् । अवसरेऽस्मिन् नगरस्य विशिष्टविद्वान्सः सामाजिकाः तथा परिसरस्य सर्वेऽपि प्राध्यापकाः कर्मचारिणश्च समुपस्थिताः आसन् ।

प्रतियोगितानां परिणामः
केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरः सप्तदश सुवर्णपदकम्, अष्टौ रजतपदकम् प्राप्य प्रथमस्थाने वर्तते ।
• केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरः अष्टौ सुवर्णपदकं नव रजतपदकं प्राप्य द्वितीये स्थाने अस्ति ।
• चोटीपुरा स्थितः श्रीमद्दयानन्द-कन्या-गुरुकुल-महाविद्यालयः सप्त सुवर्णपदकं चत्वारि रजतपदकं प्राप्य तृतीये स्थाने अस्ति ।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरः, चोटीपुरा स्थितः श्रीमद्दयानन्द-कन्या-गुरुकुल-महाविद्यालयः, प्रो. अभिराजराजेन्द्रमिश्र
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः
Next Article Cm Sukhu in International Kullu Dussehra Festival : : देवतानां वाद्ययन्त्रवादकानां उपहारराशौ वृद्धि:‌
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?