Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- हरियाणाप्रान्तस्य नूतनमुख्यमंत्रिण: राज्यमन्त्रिमण्डलस्य च शपथग्रहणसमारोहः १७ अक्टूबरदिनाङ्के प्रातः १० वादने पञ्चकुलानगरे भविष्यति । समारोहेस्मिन् प्रधानमंत्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह:, केन्द्रीयमन्त्रीमनोहरलाल:, भाजपाशासितराज्यानां मुख्यमंत्रिण: एवं हरियाणातः लक्षशः जनाः समुपस्थिताः भविष्यन्ति।
- देहलीप्रान्तस्य मुख्यमन्त्री आतिशी सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं मिलितवती। शपथग्रहणानन्तरं तयो: इदं प्रथमं सम्मेलनम् आसीत्। प्रधानमन्त्रिकार्यालयेन सामाजिकसंचारपटले एक्स इत्यत्र अस्मिन् विषये विलिख्य सूचना प्रदत्ता।
हिमाचलवार्ता:
- अन्ताराष्ट्रीयकुल्लूदशहरामहोत्सवे सोमवासरे मॉलरोड् इत्यत्र १७ देशानाम् सांस्कृतिकं दर्शनं जातम्। अमेरिका, रूस, मिस्र इत्यादीनां १७ देशानाम् कलाकाराः सांस्कृतिकप्रदर्शनं कृतवन्तः। सांस्कृतिकयात्रां द्रष्टुं मॉलमार्गः पूर्णतया पूरितः आसीत्। अस्मिन् कार्यक्रमे राज्यस्य पञ्चमण्डलेभ्यः पञ्चराज्येभ्यः च कलाकाराः स्ववेषभूषाभि: लोकनृत्यैः च स्वसांस्कृतिकधरोहलं प्रस्तुतवन्तः।
- Himachal News: महार्घतावृत्ति: तु प्राप्ता अवशिष्टांशस्य कृते अधुना प्रतीक्षा कर्तव्या भविष्यति। सचिवालयस्य कर्मचारीणां सामान्यसदनं मङ्गलवासरे शिमलायां भविष्यति।
- भाजपादलस्य प्रदेशाध्यक्ष डा. राजीव बिन्दलः अवदत् यत् हिमाचलप्रदेशस्य आधारभूतसंरचनाविकासे केन्द्रसर्वकारस्य सर्वाधिकं योगदानं वर्तते, विशेषतया नरेन्द्रमोदीसर्वकारेण आधारभूतसंरचनाविकासे सर्वाधिकं योगदानं कृतम् अस्ति। डॉ. बिन्दलः अवदत् यत् हिमाचलप्रदेशे ग्राम्यमार्गनिर्माणे क्रान्तिः प्रधानमन्त्री सड़कयोजनायाः कारणेन आगता।
- आगामिषु षड्दिनेषु हिमाचलप्रदेशस्य सर्वेषु भागेषु वातावरणं पर अनुकूलं भविष्यति इति सम्भावना वर्तते। परं विगतदिने राजधान्यां शिमलानगरे लघुमेघावरणम् आसीत्। ऋतुविज्ञानकेन्द्रं शिमला इत्यस्य अनुसारं राज्यस्य सर्वेषु भागेषु २० अक्टूबरपर्यन्तं वातावरणं शुष्कमेव भविष्यति इति पूर्वानुमानम् अस्ति ।
- हिमाचलप्रदेशस्य ऊनामण्डले मार्गदुर्घटनायां त्रयः युवकाः मृताः। सूचनानुसारं ऊनामण्डलस्य सन्तोषगढमार्गे अजौलीबैरियर इत्यत्र मार्गदुर्घटना जाता। पुलिसदलानुसारं कारचालकस्य प्रमादेन दुर्घटनेयं अभवत्।
- हिमाचलप्रदेशस्य कुल्लूनगरस्य भुंतरविमानस्थानकात् सोमवासरे जयपुरं प्रति विमानसेवा आरब्धा। दशहरामहोत्सवस्यावसरे आरब्धा एषा विमानसेवा कुल्लू-मनाली-नगरस्य पर्यटनव्यापारं वर्धयिष्यति । जयपुरतः आगतस्य ७२ आसनयुक्तस्य विमानस्य अस्य भुन्तरविमानस्थानके “वाटरकेनन” इत्येतै: जलसिञ्चनेन स्वागतं अभवत्।
- कम्बोडियादेशे ६ अक्टोबरतः १४ अक्टूबर पर्यन्तम् आयोजितियां किकबॉक्सिंगस्पर्धायां हिमाचलस्य अखिलः स्पर्धायां देशस्य प्रतिनिधित्वं कृत्वा स्वर्णपदकं प्राप्तवान् । अस्य कृते राष्ट्रिय-किक-बाक्सिंग-सङ्घः (वाको इण्डिया) तस्मै अभिनन्दनं कृतवान् अस्ति।