HPCM: आपदाप्रभावितक्षेत्राणां निरीक्षणं कर्तुं हिमाचलम् आगन्तुं शक्नोति प्रधानमंत्री मोदी- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् प्रधानमन्त्रिकार्यालयस्य पक्षतः मुख्यसचिवेन सह वार्ता कृता। प्रधानमंत्रिणा नरेन्द्रमोदिना आपदाप्रभावितक्षेत्रं द्रष्टुं हिमाचलप्रदेशम् आगन्तुम् इच्छति स्म। परन्तु प्रतिकूलस्य वातावरणस्य कारणात् तस्य भ्रमणं स्थगितम्। सुक्खुः अवदत् यत् आगामिषु कालेषु प्रधानमन्त्री नरेन्द्रमोदी आपदाग्रस्तक्षेत्राणां निरीक्षणं कर्तुम् आगन्तुं शक्नोति। सः अवदत् यत् आगामिषु कालेषु केन्द्रसर्वकारः आपदापश्चात् हिमाचलस्य साहाय्यं करिष्यति इति राज्यसर्वकारः आशास्ति। सूत्रेभ्य: ज्ञायते यत् सोमवासरे प्रधानमन्त्रिणः हिमाचलयात्रा प्रस्ताविता, परन्तु प्रतिकूलस्य वातावरणस्य कारणात् प्रवासं कर्तुं न शक्तवान्।